Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 207
________________ Shri Mahavir Jain Aradhana Kendra युक्तिप्रबोधे ॥१९३॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हेतावनवस्था, स्वस्यैव हेतुतायां परद्रव्येष्वषि हेतुत्वे लाघवात् कालद्रव्यानर्थक्यं स्यादिति चेत् न, अधर्मास्तिकायस्य परेषां स्थिरताहेतुत्वेऽपि स्वस्य स्थर्ये स्वस्यैव प्रकाशकत्वे दीपस्येव हेतुत्वाभ्युपगमस्तथाऽस्यापीति समाधानात् यथा प्रदीपः स्वपरप्रकाशकस्तथैव कालः स्वपरप्रवर्त्तकः इति भावनासंग्रह, तथा "वर्त्तनालक्षणः कालो, वर्त्तना स्वपराश्रया । यथास्वं गुणपर्यायैः परिणेतृत्वयोजना ॥ १ ॥" इत्यादिपुराणे, अथैवमन्यपरिणामहेतेोरभावे कालस्य कथं द्रव्यत्वं ? ' गुणपर्याव वद् द्रव्य' मिति तल्लक्षणे नवनवपर्यायाणामावश्यकत्वात् तस्त्वे हेत्वन्तरस्यावश्यं मृग्यत्वादिति चेत् माऽस्तु गुणपर्यायवत्त्वं, 'कालचे 'तिभिन्नसूत्रेण तथैव तात्पर्यात्, अस्तु वा तदपि परेषां द्रव्याणां वर्त्तनाहेतुत्वगुणेन धाराप्रवाहि, अपरापरसमयादिपर्यायेण तथास्वभावात् न हि समयादिः पर्यायो मुख्यद्रव्यसमयरूपकालद्रव्यातिरिक्तोऽनतिरिक्तो वा, किन्तु भेदाभेदरूपः तथा च यः समयो नवनवपर्यायरूपः स एव तदुत्तरवर्त्तिपुद्गलद्रव्यादिवर्त्तना हेतूभूतसमयापेक्षया द्रव्यं सोऽप्युत्तरसमयस्तृतीयसमया|पेक्षया द्रव्यमिति द्रव्यत्वपर्यायत्वयोः सामानाधिकरण्यात् यथा हि घटपर्यायापेक्षया मृदो द्रव्यत्वं तस्याः पुनः पार्थिव-परमाण्वाद्यपेक्षया पर्यायत्वं, एवं च सिद्धं “ द्रव्यं पर्यायवियुतं, पर्यायाः द्रव्यवर्जिताः । क कदा केन किंरूपा, दृष्टा मानेन केन वा ? ॥ १ ॥ " इति वचनात्, कालस्य परमनिकृष्टोऽशः समयपर्यायः तस्यापि द्रव्यत्वं, अत एव -- “अणताणि य दव्वाणि, कालो पोग्गलजंतुणो" इत्यागमः सूपपादः, 'उत्पादव्यय धौव्ययुक्तं सदि' त्यपि लक्षणं समयादिपर्यायश्रेणीनां उत्पादविनाशौ स्पष्टौं कालत्वेन ध्रुवत्वमपीति स्पष्टमेव निष्टंक्यते, यो हि पुमान् पूर्वसमये कार्यापेक्षी स तन्नाशरूपे उत्तरसमयोत्पादे शोकवन्, तदितरस्तु प्रमोदवान् कालसामान्यापेक्षी माध्यस्थ्यवानिति त्रयात्मकत्वात् नन्वेवं समयादिपर्यायाणामन्वयि द्रव्यमेकमेव ! For Private and Personal Use Only जल्पसमाधाने कालद्रव्यं ॥१९३॥

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234