Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे ॥१६॥
- N
AGAUROTECRUST
चतुर्दशगुणस्थाननियमागमवचनात् , यच्चाष्टादशदोषरहित्यं चतुर्विंशदतिशयसाहित्यं तत्रैव विप्रतिपत्तेर्न किंचिदेतत् , एतेन रत्नाकरावतारिकादचोऽपि तत्प्रतिपक्षनिराकरणात् समाहितं, यत्तु ध्यानासनस्थस्यैव श्रेणेरारोहणं तत्रापि ध्यानस्यैव नियमो, न | त्वासनस्य, यदुक्तं- 'तो देसकालचेट्ठा नियमो झाणस्स नत्थि समयाम्मि । जोगाण समाहाणं जह होइ तह पयइसव्यं ॥१॥ इति श्रीआवश्यकवृत्ती; तत एव 'प्राणायामक्रमप्रौढिरत्र रूढ्यैव दर्शिता' इति गुणस्थानकमारोहवचनं सूपपादम्, अन्यथा विहायोगतिनिद्राद्विकचक्षुर्दर्शनादित्रिकप्रमुखसप्तपंचाशत्प्रकृतीनां क्षीणमोहे, परिग्रहसंज्ञया लोभस्य सूक्ष्मसम्पराये, अनिवृत्ती वेदत्रयबादरकषायाणां, अपूर्वकरणे हास्यादिषट्कस्यानुदय एव स्यात्, न चात्र गुणश्रेणीसद्भावात् प्रादेशिक एवोदय इति वाच्यं, | एतत्प्रकृतीनामुदीरणाया अपि सद्भावात्, एवं सुस्वरदुःस्वरप्रकृतेरपि तत्रोदयाज्जल्पतोऽपि श्रेणिः प्रतिपत्तव्या, बाहुल्यापेक्षया तस्मादवस्थाद्वयसंगरः । सक्तानां तूपसर्गायैस्तद्वैचित्र्यं न दुष्यति ॥ १ ॥ देहावस्था पुनर्यैव, न साध्या नोपरोधिनी । तदवस्थो मुनियायेत्, स्थित्वाऽसित्वाधिशय्य वा ॥२॥ इत्यादिपुराणे २१ पर्वणि, अत एव चर्यापरीषहोऽपि तद्गुणेषु प्रतीतः, अन्यथा तत्तद्गुणस्थानकेषु बन्धोदयोदीरणासत्तादिकथनमात्रमेव स्यात्, तथा च तत्तद्न्थानामप्रामाण्ये गौरवं, तेन नासननियमस्तवापि, द्रव्यसंग्रहवृत्ती 'पंचमुष्टिभिरुत्पाट्य, उत्तमांगस्थितान् कचान् । लोचानन्तरमेवापद्राजन् ! श्रेणिक केवलम् ॥१॥' इति लोचकरणसमय एव श्रेणिप्रतिपत्तिरिति । पचाबंधहरिवंशपुराणेऽपि-'जा चिहुरुप्पालण खिवइ हत्थु, ता केवलुप्पनो पसल्थु इति, आदिपुराणेऽपि- 'देशादिनियमोऽप्येवं, प्रायोवृत्तिव्यपाश्रयः । कृतात्मनां तु सर्वोऽपि, देशादिानसिद्धये ॥१॥ यद्देशकालचेष्टासु, सर्वास्वेव समाहिताः । सिद्धाः सिध्यन्ति सेत्स्यन्ति, नात्र तनियमोऽस्त्यतः ॥२॥' पर्वणि एकविंशे, यदि ध्याने
CALCOCCARKAR
॥१६॥
For Private and Personal Use Only

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234