Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
केवलिसिद्धिः
मुक्ति
युक्तिप्रबोधे हैं न चैतत् कवलाहारेऽस्ति, संयतानामपि चारित्रविरोधात्, नेष्टापत्तिः, सूक्ष्मसाम्परायिकयथाख्यातचारित्रद्वयन कवलाहारस्य
| विरोधे प्रमत्तसंयतचारित्रस्यापि विरोधापत्तेः, न ह्यर्कविरुद्धं तमो न दीपविरुद्धमिति प्रसिद्धम् , एवमस्मदादिज्ञानेन कवलाहारा॥१५५॥
विरोधे सर्वत्रज्ञानस्याप्यविरोधो मन्तव्यः, निर्दयत्वं यदारोपितं तच्च कृतोत्तरमेव, न हि श्रुतकेवलिनः श्रुतबलेन सर्वमध्यक्षमिव पश्यतो भुजानस्य निर्दयत्वं श्रद्धीयते, यदपि जटिलादीनामकवलाहारत्वं तन्मिथ्यारूपं, छाबस्थ्ये यदि तीर्थकरैरपि कवलैराहतं | तर्हि किं नामभिर्वराकैर्जटिलैः कर्त्तव्यं?, न च योगमाहात्म्योपयोगिनस्तीर्थकरा भवेयुः, लब्ध्युपजीवने प्रमत्ततानुषंगात् , यदुक्तं महापुराणे-"सत्योऽपि लब्धयः शेषास्त्वयि नार्थक्रियाकृतः । कृतकृत्ये बहिर्द्रव्यसम्बन्धो हि निरर्थकः॥१॥" इति २४ पर्वणि, एवं भूताविष्टेऽपि वाच्य, यदपि परमौदारिक स्वीक्रियते तेनापि नाकवलाहारित्वं, तथाहि-यदि सप्तधातुमध्येऽन्यतमव|र्जितं शरीरं स्यात्तदा तत्र कार्मणतैजसयोन स्थितिः स्यात् , तेनैव रुधिराभावे चिकित्सकैः कालप्राप्तिरुच्यते, किंच-तच्छरीरं | पूर्वस्माद्देहाद्भिन्नमभिन्नं वा ?, भिन्नं चेद्भवान्तरप्रसंगो द्रढीयानेव, न चावस्थाविशेषवत् सर्वथा न भेद इत्याशय, तेजोमयत्वाद्धातुवर्जितत्वात् स्फटिकरूपत्वाद् बहुधा भेदाद् अन्यथा पूर्व कवलाहाराधीनस्थितिकं परमौदारिकं नोकाहाराधीनस्थितिकमिति न प्रतिपत्तव्यं, तेन स्वीकुरु भवान्तरं त्यज वा सर्वथा वैरुप्यम्, अथ भवान्तरे तत्पूर्वशरीरत्याग एव, अस्मिस्तु परिणतिभेद एव, न पुनस्तत्त्याग इति चेत् कश्चात्र प्रतिषद्धा ?, अस्मन्मतावेशात्, तीर्थकृच्छरीरं हि शेषजनेभ्योऽतिशायि स्यात् , यदाहुः
२ क्षायिकज्ञानस्य विरुद्धमज्ञानं, मतिज्ञानस्यापि विरुद्धं, क्षायिकसम्यक्त्वस्य विरुद्ध मिथ्यात्वं, तदोपशमिकादेरपीति ।
*CREAARAA
॥१५५॥
For Private and Personal Use Only

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234