Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 178
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैधर्म्यप्रकरणम् यत्तु साक्षाद्दर्शनादिः पुरुषस्य रागादिविनाशे व्याप्रियते न ज्ञानोत्पत्तावित्युक्तम्, तदसत् सम्यग्ज्ञानोत्पत्तावन्वयव्यतिरेकोपपत्तेः । यथार्थद्रष्टा तच्छिष्याणामुपदेष्टा चेति समुदितमाप्तलक्षणं यथार्थोपदेशे हेतुस्तदन्तरेणानुपदेशात् । यदि चान्वयव्यतिरेकवतोऽपि यथार्थदशित्वादे रागादिविनाश एव व्यापारः ? तर्हि रागादेरप्येतद्विनाशकत्वमेवेत्युभयं परतः स्यात् । तस्माद् रागादेरप्रामाण्योत्पत्ताविव यथार्थोपलम्भादेरपि सम्यग्ज्ञानोत्पत्तौ व्यापारोऽभ्युपगन्तव्यः । १६९ तथेन्द्रियाणामपि काचकामलादिदोषसद्भावे [sपि ?] मिथ्याज्ञानमेव तदभावे सम्यग्ज्ञानजननादुभयं परतः । परेणाप्यभावस्य कारणत्वमनेकधेष्टम् । यथा सदुपलम्भकप्रमाणपञ्चकव्यावृत्तेर्मानसज्ञानोत्पत्तौ पक्षधर्मताद्यनतमापाये च लिङ्गस्य मिथ्याज्ञानोत्पत्तावित्यादि । अथ काचकामलादेर्दोषस्य मिथ्याज्ञानोत्पत्तौ कारणतोपलब्धेः तदभावे तस्यैवानुपलब्धिर्न सम्यग्ज्ञानमिति चेत्, न, अन्वयव्यतिरेकवतोऽकारणत्वेऽतिप्रसङ्गात् [ यदि ? तथा ] च दोषाभावे ऽन्वयव्यतिरेकवानपि न सम्यग्ज्ञानोत्पत्तौ कारणं तत्सद्भावेऽपि न मिथ्याज्ञानोत्पत्तावित्युभयं स्वतः स्यात् । सर्गश्चेन्द्रियाणामुभयरूपस्य 15 कार्यस्योपलब्धेरुभयार्थमिति ज्ञायेत । For Private And Personal Use Only यच्चेदं न कारणगुणपूर्वकं परिच्छेदकत्वं तदिष्यत एव अनुभवज्ञानस्येन्द्रियादुत्पन्नस्यार्थपरिच्छित्तिरूपत्वात् । तज्जनकञ्चेन्द्रियादिकारकं कारकान्तरापेक्षञ्चेति परतः प्रामाण्यम् । कारकसामग्रयन्तु न पश्चाद्भाविनिमित्तमपेक्षत इति । तदपेक्षया तूभयं स्वत इति न मिथ्याज्ञानं परतः स्यात् । २२ 5 ननु दोषसद्भावे सति इन्द्रियं मिथ्याज्ञानं जनयति, तदभावे च सम्यग् ज्ञानमित्यभ्युपगमाद् उभयाभावे च उभयविकलं विज्ञानं कुर्यादित्येतदचोद्यम्, उभयविकलस्येन्द्रियस्यासम्भवात् । यथा हि पूर्वमसतां दोषाणामुत्पत्तिरूर्ध्वञ्च प्रध्वंस इति नास्त्युभयविकलमिन्द्रियम् । न चोभयविशेष- 20 विकलं ज्ञानत्वसामान्यं सम्भवति, सामान्यवतो विशेषयोगात् । यथा गोत्वसामान्याधारस्य शावलेयादिविशेष इति । 10 25

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315