Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 277
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६८ व्योमवत्या यथा सर्गादौ सृष्टयादावणुषु कर्म शरीरादिसम्पादनार्थम्, अग्निवाय्वोरूर्ध्वतिर्यग्गमने इति । अग्नेरूद्धज्वलनं वायोस्तिर्यग्गमनं प्राणिनामुपकारापकारसमर्थमिति । महाभूतानां भूगोलकदेवकुलादीनां प्रक्षोभणं तत्कम्पनं मणीनां तस्करं चौरं प्रति गमनम्, अयसो लोहस्यायस्कान्ताभिमुखतया 5 अभिसर्पणञ्चेति । ॥ इति श्रीव्योमशिवाचार्यविरचितायां पदार्थसङ्ग्रहटीकायां कर्मपदार्थः समाप्तः॥ ॥ अथ सामान्यपदार्थनिरूपणम् ॥ सामान्यं द्विविधम, परमपरञ्च। स्वविषयसर्वगतमभेदात्मकमनेकवृत्ति एकद्विबहुव्वात्मस्वरूपानु गमप्रत्ययकारि स्वरूपाभेदेनाधारेषु 10 प्रबन्धेन वर्तमानमनुवृत्तिप्रत्ययकारणम् । कथम् १ प्रतिपिण्ड सामान्या पेक्ष प्रबन्धेन ज्ञानोत्पत्तावभ्यासप्रत्ययजनिताच्च संस्कारादतीतज्ञानप्रबन्धप्रत्यवेक्षणाद् यदनुगतमस्ति तत् सामान्यमिति । अथ सामान्यस्य लक्षणपरीक्षार्थं परमपरञ्च द्विविधं सामान्यमित्यादिप्रकरणम् । अत्र च पूर्व विभागस्याभिधानादनियमज्ञापनेन कार्यकारणभावा15 शङ्काव्युदासः सामान्यलक्षणविभागयोः, यथा द्रव्यं पृथिव्यप्तेज इत्यादि प्रयोजनमित्युपदर्शयति । स्वविषयसर्वगतमिति विप्रतिपत्तिव्युदासः । तथाहि परे मन्यन्ते सर्व सामान्यं सर्वगतम् । गोत्वमश्वपिण्डेष्वप्यस्ति, अश्वत्वञ्च गोपिण्डादिष्वपीति । अनुपलम्भस्तु व्यञ्जकाभावात् । यत्र च व्यञ्जकसद्भावस्तत्राभिव्यक्तिः, यथा गोपिण्डेषु गोत्वस्याश्वपिण्डेऽश्वत्वस्येति । तच्चासत् । गोत्वस्याश्वादिपिण्डेष सदभावे प्रमाणाभावाद । व्यवस्थिते हि सद्भावेऽभिव्यञ्जकाभावाद् अनुपलब्धिः कल्प्यते । अथ सामान्यं सर्वैः सम्बध्यते, व्यापकत्वादाकाशवदित्य स्ति?त्र किं]प्रमाणम् । तत्र सर्वैः समवाये साध्ये साध्यविकलमुदाहरणम्, आकाशस्य सर्वत्र समवायाभावात् । संयोगित्वे तु साध्ये सामान्यस्य द्रव्यरूपताप्रसङ्गः । न चैतद्युक्तम् । गुणकर्मसु 20 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315