Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 295
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८६ व्योमवत्यां निमित्तेभ्यः प्रत्याधारं विलक्षणोऽयं विलक्षणोऽयमिति प्रत्ययव्यावृत्तिस्ते अन्त्या विशेषाः । तथा देशकालविप्रकृष्टऽदृष्टे परमाणौ स एवायमिति प्रत्ययः प्रमाणम्, विशेषसम्बन्धे सति प्रत्यभिज्ञानस्य देवदत्तादावुपलब्धेः । अतो व्यावृत्तप्रत्ययविषयत्वात् प्रत्यभिज्ञायमानत्वाच्च परमाण्वादेविशेषसम्बन्धित्वम् । अस्ति च योगिनां पूर्वोपलब्धे परमाणौ स एवायं परमाणुः यः पञ्चपुरावस्थितो वसन्तसमयोपलब्ध इति । __अथ इतरेतराभावात् पृथक्त्वाद् वा प्रत्ययव्यावृत्तिः प्रत्यभिज्ञानं वेति, न ततोऽन्यो विशेष इति चेत्, न, तदुपलम्भेऽपि स्थाण्वादौ संशयदर्शनात् । तथाहि इतरेतराभावोपलब्धौ पृथक्त्वोपलम्भे च सति सामान्यदर्शनादिभ्यः 10 किमयं स्थाणुः पुरुषो वेति संशयो दृष्टः, तद्व्यतिरिक्तशिरःपाण्यादिविशेषोप लम्भे च सति पुरुष एवायमिति च निर्णयदर्शनाद् इतरेतराभावपृथक्त्वान्य एव विशेषः परमाण्वादौ वाच्य इति । __ अन्ये तु इतरेतराभावस्य निषिध्यमानज्ञानजनकत्वमेव, व्यावृत्तज्ञानञ्च तस्माद् विलक्षणम्, अतो निमित्तान्तरकार्यमिति मन्यन्ते । पृथक्त्ववशाच्च पृथगिति व्यवहारः, न विलक्षण इति । अथ योगिनां योगजधर्मादे: प्रत्ययव्यावृत्तिः प्रत्यभिज्ञानञ्चेति । तदेवाह यदि पुन: अन्त्यविशेषमन्तरेण योगिनां योगजधर्मात् प्रत्ययव्यावृत्तिः प्रत्यभिज्ञानञ्च स्यात् को दोषः ? तदाह एवं नैव भवतीति । यथा चा योगजाद् धर्माद् अशुक्ले शुक्लप्रत्ययः सञ्जायते, अत्यन्तादृष्टपूर्वे च प्रत्य20 भिज्ञानञ्चेति । यदि कदाचित् स्याद् योगिनामशुक्ले शुक्लप्रत्ययः, प्रत्य भिज्ञानञ्च, मिथ्या भवेत् । तथेहाप्यन्त्यविशेषमन्तरेण योगजधर्मान्न प्रत्ययव्यावृत्तिः प्रत्यभिज्ञानं वा भवितुमर्हतीति । अथ अन्त्यविशेषाणां परमाणूनामिव व्यावृत्तज्ञानविषयत्वाद् विशेषान्तरसम्बन्धे तत्राप्यन्यो विशेषस्तत्राप्यन्य इत्यनवस्था स्यात् । न च 25 व्यावृत्तप्रत्ययविषयत्वे समानेऽपि परमाणूनामेवायं विषयसम्बन्धो न विशेषाणामिति विशेषहेतुरस्तीति । अभ्युपगमे वा, विशेषेषु विशेषान्तरसम्बन्धं विना व्यावृत्तप्रत्ययवत् परमाणुष्वपि स्यादित्याह अथान्त्यविशेषेष्विव For Private And Personal Use Only

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315