Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 298
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समवायवैधयंप्रकरणम द्रव्याजितत्वाद् नापि समवायः, तस्यैकत्वात्, न चान्या वृत्तिरस्तोति ? न, तादात्म्यात् । यथा द्रव्यगुणकर्मणां सदात्मकस्य भावस्य नायः सत्तायोगोऽस्ति, एवमविभागिनो वृत्तात्मकस्य समवायस्य नान्या वृत्तिरस्ति, तस्मात् स्वात्मवत्तिः । अत एवातीन्द्रियः, सत्तादीनामिव प्रत्यक्षेष वृत्त्यभावात, स्वात्मगतसंवेदनाभावाच्च । तस्मादिह बुद्धयन- 5 मेयः समवाय इति । योगाचारविभूत्या यस्तोषयित्वा महेश्वरम् । चक्ने वैशेषिकं शास्त्रं तस्मै कणभुजे नमः ।। ॥ इति प्रशस्तपादाचार्यविरचितं द्रव्यादिषट्पदार्थभाष्यं समाप्तम् ।। अथ समवायस्य लक्षणपरीक्षार्थमयुतसिद्धानामित्यादिप्रकरणम् । 10 अयुतसिद्धानामेव आधार्याधारभूतानामेव यः सम्बन्धः, स समवाय इति लक्षणं व्याख्यातमेव । अथ केषामयुतसिद्धानामसौ सम्बन्धस्तदाह---- द्रव्यगुणकर्मसामान्यविशेषाणाम् । अनियमोपदर्शनार्थं कार्यकारणभूतानान्तु पटादीनाम्, न?अ कार्यकारणभूतानाञ्च सामान्यादितद्वतामिति । अयतसिद्धानामाधार्याधारभूता[वस्थान?ना] मिति चायं नियमः । इहेदमिति 15 बुद्धिर्यतो निमित्ताद् भवति, स समवायाख्यः सम्बन्धः । तथा च सूत्रम् 'इहेदमिति यतः कार्यकारणयो: स समवायः' (वै० सू० ७।२।२६) इति । इह इत्यधिकरणम्, इदमित्याधेयम्, तयोः सम्बन्धं विना 'इहेदम्' बुद्धिर्न भवतीति । यतश्चासर्वगतानामिति नियमाशङ्कानिरासार्थम् । तथा हि सर्वगतानामप्याकाशादीनां स्वगुणादिभिः समवायोपलब्धेः असर्वगतानाम् 24 इति वाक्यं नियमाशङ्कानिरासार्थं व्याख्येयम् । तथा च सर्वगतानामेव समवाय इत्ययं नियमो न घटते, यतश्चासर्वगतानामपि समवायो दृश्यत इति । 'च' शब्दस्य चानुक्तसमुच्चयार्थत्वाद् असर्वगतानां सर्वगतानाञ्चेति लभ्यते । अधिगतान्यत्वानामिति । अधिगतमन्यत्वं नानात्वं येषां ते तथोक्ताः, तेषामिति तादात्म्यव्युदासः । तथाप्यधिगतान्यत्वा 25 ३७ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315