Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 297
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 २८८ व्योमवत्यां कारणभूतानां वा अयुतसिद्धानामाधार्याधारभावेनावस्थितानामिहेदमिति बुद्धिर्यतो भवति, यतश्नासर्वगतानामधिगतान्यत्वानाम् अविष्वग्भावः स কাহাঃ প্রঃ। জ্বথ ? ঘঈ জুট্ট বিসয়ঃ স্বচ্ছ सति दृष्टः, तथेह तन्तुष पटः, इह वीरणेषु कटः, इह द्रव्ये गुणकर्मणी, 5 इह गुणे गुणत्वम्, इह कर्मणि कर्मत्वम्, इह नित्यद्रव्येऽन्त्या विशेषा इति प्रत्ययदर्शनादस्त्येषां सम्बन्ध इति ज्ञायते । न चासौ संयोगः सम्बन्धिनामयुतसिद्धत्वाद् अन्यतरकर्मादिनिमित्तासम्भवान् विभागान्तत्वादर्शनादधिकरणाधिकर्तव्ययोरेव भावादिति । - स च द्रव्यादिभ्यः पदार्थान्तरं भाववल्लक्षणभेदात् । यथा भावस्य द्रव्यत्वादीनां स्वाधारेषु आत्मानुरूपप्रत्ययकर्तृत्वात् स्वाश्रयादिभ्यः परस्परतश्चार्थान्तरभावः तथा समवायस्यापि पञ्चसु पदार्थे विहेतिप्रत्ययदर्शनात तेभ्यः पदार्थान्तरत्वमिति । न च संनोगवन्नानात्वं भाववल्लिङ्गाविशेषाद् विशेषलिङ्गाभावाच्च । तस्माद् भाववत् सर्वत्रैक: समवाय इति । ननु योकः समवायः, द्रव्यगुणकर्मणां द्रव्यत्वगुणत्वकर्मत्वादिविशेषणैः सह सम्बन्धैकत्वात् पदार्थसङ्करप्रसङ्ग इति, न, आधाराधेयनियमात् । यद्यप्येकः समवायः सर्वत्र स्वतन्त्रस्तथाप्याधाराधेयनियमोऽस्ति । कथम् ? द्रव्येऽवेव द्रव्यत्वम्, गुणेष्वेव गुणत्वम्, कर्मष्वेव कर्मत्व मित्येवमादि । कस्मात् ? अन्यव्यतिरेकदर्शनात्, इति समवाय20 निमित्तस्य ज्ञानस्यान्वयदर्शनात् सर्वत्रकः समवाय इति गम्यते, द्रव्यत्वादि निमित्तानां व्यतिरेकदर्शनात् प्रतिनियमो ज्ञायते। यथा कुण्डदछनोः संयोगैकत्वे भवत्याश्रयायिभावनियमस्तथा द्रव्यत्वादीनामपि समवायैकत्वेऽपि व्यङ्ग्यव्यञ्जकशक्तिभेदादाधाराधेयनियम इति । सम्बन्ध्यनित्यत्वेऽपि न संयोगवनित्यत्वम्, भावववकारणत्वात् । 25 यथा प्रमाणतः कारणानुपलब्नित्यो भाव इत्युक्तम् तथा समवायोऽ पीति । न ह्यस्य किञ्चित् कारणं प्रमाणत उपलभ्यत इति । कया पुनर्वृत्त्या द्रव्यादिषु समवायो वर्तते, न संयोगः सम्भवति, तस्य गुणत्वेन For Private And Personal Use Only

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315