Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 299
________________ Shri Mahavir Jain Aradhana Kendra 5 २९० www.kobatirth.org 15 व्योमवस्यां गवाश्वादयो भवन्ति इति अविष्वग्भावेनावस्थितानामिति पदम् | अविष्वभावोऽपृथग्भाव देशापृथक्त्वम्, न त्वभेदः, स्वरूपभेदस्योपलब्धेः । तथाहि तन्तवो विभिन्नजातिसम्बन्धिनो विभिन्नस्वरूपाश्च पृथक्त्वे पटोऽप्येवमिति परस्परतोऽन्यत्वमेव, विरुद्धधर्माध्यासात्, प्रतिभासभेदाच्चेति । तथा च रूपादयोऽपि विरुद्धधर्माध्यासाच्च भिद्यन्ते । स च तन्तुपटादीनामस्ति इत्यन्यत्वमेव । सूत्रमप्येवं व्याख्येयम् । कार्यकारणयोरेकत्वपृथक्त्वा - भावाद् परस्परं प्रतिभासभेदाद् एकत्वपृथकत्वे न विद्येते । तस्मादधिगतान्यत्वानामविष्वग्भावेनावस्थितानाम् इहेदमिति बुद्धिर्यतः सम्बन्धाद् भवति, स समवायाख्यः सम्बन्धः । कथमित्यव्युत्पन्नप्रश्नः, विपर्यस्ताक्षेपो वा । तथा च न समवायसद्भावे प्रमाणमस्तीति । 10 Acharya Shri Kailassagarsuri Gyanmandir सर्वमेतदसम्बद्धम् । अथेहबुद्धिः प्रमाणम् ? न तस्याः समवायालम्बनत्वमाधारविषयत्वात् । तदुक्तम् इहेति चानया बुद्ध्या समवायो न गृह्यते । आधारग्राहिणी चैषा समवायाप्रतिष्ठिता || (?) , अथ सम्बन्धनिमित्ता ? स तु तादात्म्यलक्षण एव भविष्यति, समवायपक्षे बाधकोपपत्तेः । तथा हि न अनिष्पन्नयोः समवायो घटते, सम्बध्यभावे सम्बन्धस्यादर्शनात् । अथ निष्पन्नयोः सम्बन्धः समवायः ? तर्हि युतसिद्धिः स्यात् । तथा समवायस्यापि सम्बन्धानभ्युपगमे सर्वतोऽन्यत्वाविशेषाद् अनयोः सम्बन्धिनो: सम्बन्धः, न पदार्थान्तराणामिति प्रतिनियमे हेतुर्नास्तीति । 20 अथवा गृहीतं विशेषणं विशेष्यज्ञानोत्पत्तौ लिङ्गञ्च लिङ्गिज्ञानोत्पत्तौ व्याप्रियते, समवाये तु तद्रूपता नास्तीति तद्ग्रहणे प्रमाणाभावः । तथा हि इह तन्तुषु पट इति ज्ञानमाधेयानुरक्ताधारं विशेषयन् न समवायानुरक्तमिति स्वात्मगतसंवेदनाभावाद् इह बुद्धौ अप्रत्यक्ष एव समवायः । निर्विकल्पके तु अवयवावयविनोः संश्लेषज्ञाने समवायः प्रत्यक्ष एव केवलमिहेति बुद्धेः 25 सम्बन्धनिमित्तत्वेनान्यत्रोपलब्धेरिहापि तदुपलम्भादनुमानं प्रवर्त्तते । यत एवं तस्मादिबुद्धयनुमेयः समवायो न त्विह बुद्धौ प्रत्यक्ष इत्युपसंहारः ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315