Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 294
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८५ विशेष वैधर्म्यप्रकरणम् प्रत्ययव्यावृत्तिः । तथा शीघ्रगतिरिति क्रियाविशेषनिमित्ता । तेन हि सता समान गुणादपि सजातीयाद् व्यावर्त्तत इति । पीन इत्यवयवोपचयनिमित्ता, तेन सता समान गुणक्रियादपि समानजातीयाद् व्यावर्त्तते । ककुद्मान् इत्यवयवविशेषनिमित्ता, तेन सता अन्यस्माद् विलक्षणप्रत्ययजननादिति । महाघण्ट इति संयोगनिमित्ता, तत्सद्भावे व्यावृत्तप्रत्ययजननात् । तद्दान्तिकव्याख्यार्थमाह अस्मद् विशिष्टानां योगिनां नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु मुक्तात्ममनस्सु च प्रत्ययव्यावृत्तिः, एतस्माद् विलक्षणोऽयं विलक्षणोऽयमिति दृष्टा । सा चान्यनिमित्तासम्भवाद् विशेषसम्बन्धादेव भवतीति । तथा च तुल्याकृतिगुणक्रियाधाराः परमाणवः, विशेषसम्बन्धिनः, व्यावृत्तज्ञानविषयत्वात्, गवादिवत् । न च गवादिष्विव जातिगुणक्रियात्मका एव विशेषा भविष्यन्तीति वाच्यम्, समानजातिगुणक्रियाधारत्वेन विशेषितत्वादिति । तथाऽपि सर्वे तैजसाः परमाणवः तेजस्त्वसम्बन्धिनः समानगुणाधाराः समानाक्रियासम्बन्धिनश्च पक्षीकृता इति न तेषु तन्निमित्ता प्रत्ययव्यावृत्तिः । तथा च भास्वरं रूपमुष्णस्पर्श: परिमाणमेकत्वैकपृथक्त्वादयः साधारणत्वात्र व्यावृत्तज्ञानहेतवः । क्रियापि वाताहतानामेकदिगभिमुखतया गमनात् साधारणतया वैलक्षण्यप्रतिपत्तौ न कारणम् । अतो द्रव्यादिस्वरूपस्य विशेषस्यासम्भवाद् यतो निमित्तात् प्रत्ययव्यावृत्तिस्तेऽन्त्या विशेषाः । तथा मुक्तात्मानो मुक्तमनांसि च व्यावृत्तज्ञानविषयत्वाद् विशेषमपेक्षन्ते । शरीरसम्बन्धस्य चात्यन्तं व्यावृत्तेर्न आत्मनि बुद्धयादिविशेषो व्यावृत्तज्ञानहेतु:, असम्भवात् । मनसोऽपि शरीरसम्बन्धशून्यस्य संख्यादिगुणानां साधारणत्वाद् विशेषं विना न व्यावृत्तज्ञानोत्पत्तौ कारणमस्तोति । यथोक्तविशेषणाध्यासितेषु व्यावृत्तप्रत्ययः, विशेषकार्य:, व्यावृत्तप्रत्ययत्वाद्, गवादिव्यावृत्तप्रत्ययवत् 1 20 अथातीन्द्रियत्वात् परमाण्वादेः व्यावृत्तज्ञानविषयत्वे किं प्रमाणम् ? अनुमानमेव । तथाहि परमाण्वादयः, व्यावृत्तज्ञानविषयाः, द्रव्यत्वात्, गवादिवत् । संशयविषयत्वञ्च परमाण्वादेः सत्तासम्बन्धित्वात् स्थाण्वादिवत् । यत्र च संशयस्तत्रावश्यं निर्णय इति । परमाण्वादयः, विशेषसम्बन्धिनः, निर्णयविषयत्वात्, स्थाण्वादिवदेव । अत इदमाह अन्यनिमित्तासम्भवाद् येभ्यो For Private And Personal Use Only 5 10 15 25

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315