Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 292
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषवैधर्म्यप्रकरणम् २८३ अथ स्वविषयसर्वगतत्वे गोपिण्डयोरन्तरालेऽपि सामान्यमुपलभ्येत, न चैतत्तत्?दस्ति तस्मात् कथं स्वविषयसर्वगतमित्याशङ्क्याह अन्तराले च संयोगसमवायवृत्त्यभावाद् अव्यपदेश्यानीति । संयुक्तसमवायेन गोत्वादिसामान्यस्योपलम्भाद् गोत्वमिति व्यपदेशो न चासाविहास्ति, अतोऽव्यपदेश्यानीति । तथा किमिदमन्तरालं नाम यत्र सामान्यस्योपलम्भप्रसङ्गश्चोद्यते ? यदि 5 मूलद्रव्याभाव: ? न तत्र गोत्वादिसामान्यम्, अभावत्वादेव । अथ शब्दानुमेयमतीन्द्रियमाकाशम्, अन्तरालावस्थितं वा घटादि द्रव्यम्, तत्रापि न गोत्वादेः समवाये प्रमाणमस्तीत्यनुपलम्भो घटत इत्यलम् । ॥ इति श्रीव्योमशिवाचार्यविरचितायां पदार्थसङ्ग्रहटीकायां सामान्यपदार्थः ।। 10 ॥ अथ विशेषपदार्थनिरूपणम् ॥ अन्तेषु भवा अन्त्याः, स्वाश्रयविशेषकत्वाद्विशेषाः। विनाशारम्भरहितेषु नित्यद्रव्येष्वण्वाकाशकालदिगात्ममानस्सु प्रतिद्रव्यमेकैकशो वर्तमाना अत्यन्तव्यावृत्तिबुद्धिहेतवः । यथा अस्मदादीनां गवादिष्वश्वादिभ्यस्तुल्याकृलिगुणनियावयवसंयोगनिमित्ता प्रत्ययव्यावृत्तिर्दृष्टा, गौः शुक्लः शीघ्रगतिः पीनककुमान् 15 महाघण्ट इति । तथा अस्मद्विशिष्टानां योगिनां नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु मुक्तात्ममनस्तु च अन्यनिमित्तासम्भवाद् येभ्यो निमित्तेभ्यः प्रत्याधारं विलक्षणोऽयं विलक्षणोऽयमिति प्रत्ययव्यावृत्तिः, देशकालविप्रकर्षे च परमाणौ स एवायमिति प्रत्यभिज्ञानञ्च भवति, तेऽन्त्या विशेषाः। यदि पुनरन्त्यविशेषमन्तरेण योगिनां योगजाधर्मात् प्रत्ययव्यावृत्तिः प्रत्यभिज्ञानश्च स्यात् ततः किं स्यात्, नैवं भवति । यथा च[7] योगजाधर्मादशुक्ले शुक्लप्रत्ययः सञ्जायते, अत्यन्तादृष्टे च प्रत्यभिज्ञानम्, यदि स्यान्मिथ्या भवेत् । तथेहाप्यन्त्यविशेषमन्तरेण योगिनां न योगजाद्धर्मात् प्रत्ययव्यावृत्तिः प्रत्यभिज्ञानं वा भवितुमर्हति । 25 20 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315