Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 291
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 २८२ व्योमवत्यां ह्यनियतदेशत्वात् सामान्यानां नियतेन धर्मिणा सम्बन्धो न स्यादित्याह यद्यपि अपरिच्छिन्नदेशानि सामान्यानि, तथापि उपलक्षणनियमात् कारणसामग्रीनियमाच्च स्वविषयसर्वगतानीति । उपलक्ष्यतेऽनेनेत्युपलक्षणमनुगतज्ञानमेव । तथाहि द्रव्यं द्रव्यमित्यनुगतं ज्ञानं द्रव्येष्वेव, न गुणादौ, अतः स्वविषयसर्वगतमेव द्रव्यत्वम्, विषयान्तरे तत् सद्भावे प्रमाणाभावात् । एवं गुणत्वादावपीति । उपलक्षणं सामान्याभिव्यञ्जकं वा तन्नियमात् स्वविषयसर्वगतम् । तथाहि सास्नाद्युपलक्षितपिण्डस्य गोत्वेनाभिसम्बन्धः, केसराद्यपलक्षितस्याश्वत्वेनाभिसम्बन्ध इत्येवं सर्वत्र नियतं सद् व्यञ्जकमभ्यूह्यम् । अथास्तु व्यञ्जकनियमात् स्वविषय एवोपलम्भात् स्वविषयसर्वगतत्व10 मत्र कारणं वाच्यम्, नियामकाभावे नियताश्रयसम्बन्धस्यैवाभावप्रसङ्गादित्याह कारकसामग्रोनियमाच्च स्वविषयसर्वगतमिति । तथाहि गोत्वजातिसम्बन्धोपभोगित्वप्रापकादृष्टोपलक्षितसामग्रीसम्पादितो गोपिण्डो नाश्वादि इतरः, तन्नियमात् स एव गोत्वेनाभिसम्बध्यते नान्यः, तथा अश्वत्वजाति सम्बन्धोपभोगप्रापकादृष्टोपलक्षितसामग्रोजन्यत्वाद् अश्वपिण्डोऽश्वत्वेनाभि15 सम्बद्धयत इति । एवमन्यत्राऽपीति । अतो यदुक्तं 'यत्रासौ वर्तते भावस्तेन सम्बद्धयते न तु' इत्यादि, तदपास्तम् । नियताश्रयसमवेतस्यैवोपलम्भसिद्धौ नियमकारणस्यानभिधानात् । ग्रच्चेदं कि गौर्गोत्वेनाभिसम्बध्यते अथागौरिति चोद्यम्, तन्न प्रतिसमाधानाहम्, निष्ठासम्बन्धयोरेककालत्वादिति । स्वकारणैः सत्तादिभिश्च 20 पिण्डस्याभिसम्बन्ध एवात्मलाभः, न पूर्वं तस्य गोरूपताऽगोरूपता वा, तत्सत्त्वस्यैवासम्भवात् । अथ यया मणिमन्त्रौषधादीनि विशिष्टार्थक्रियासम्पादनसमर्थानि स्वकारणादुत्पन्नानि एवं गोपिण्डा गौरितिज्ञानोत्पादनसमर्थाः स्वकारणादेवोत्पन्ना न अश्वादिज्ञानमुत्पादयन्तीति चेत्, तहि यत् तत् सामर्थ्य येन सता गौरित्यनुगतज्ञानमुत्पादयन्ति, तद् यद्यर्थान्तरं संज्ञाभेदमात्रम् । अव्यतिरेके त्वनुगतज्ञानाभावप्रसङ्गः । तस्मादनुगतस्य वस्तुनः प्रत्यक्षेण प्रतिभासनात् सामान्यनिराकरणे सर्वं दूषणमसाधनमेवेति । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315