Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 289
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८० व्योभवत्यां द्रव्यत्वं परस्परविशिष्टेषु व्यावृत्तस्वरूपेषु पृथिव्यादिष्वनुवृत्तिप्रत्ययहेतुत्वात् सामान्यम्, गुणकर्मभ्यो व्यावृत्तिप्रत्ययहेतुत्वाद् विशेषः । यथा द्रव्यत्वम् तथा गुणत्वमपि परस्परविशिष्टेषु रूपादिष्वनुवृत्तिप्रत्ययहेतुत्वात् सामान्यं द्रव्य कर्मभ्यो व्यावृत्ति प्रत्यय हेतुत्वाद् विशेषः । तथा कर्मत्वं परस्परविशिष्टे5 षत्क्षेपणादिष्वनुवृत्ति प्रत्यय हेतुत्वात् सामान्यम्, द्रव्यगुणेभ्यो व्यावृत्ति प्रत्यय हेतुत्वाद्विशेषः । एवं पृथिवीत्वरूपत्वोक्षेपणत्वगोत्वघटत्वपटत्वादीनामपि प्राण्यप्राणिगतानामनवृत्तिव्यावृत्ति प्रत्यय हेतुत्वात् सामान्यविशेषभावः सिद्ध इत्यतिदेशः । प्राणसम्बन्धिनि पिण्डे गतानि गोत्वाश्वत्वादीनि, अप्राणिगतानि पृथिवीत्वादीनि प्राणशून्याधारगतानि, स्वभेदेऽनवृत्तिप्रत्ययहेतुत्वाद् भेदान्तराद् व्यावृत्तिप्रत्ययहेतुत्वाच्च तेषां] सामान्यविशेषभावः सिद्ध इति । न चैकस्य वस्तुनो द्वैरूप्यानुपलब्धेः कथं तदेव सामान्यं विशेषश्चेति ? अथैकमत्र पारमार्थिकम्, अन्यच्चोपचरितमित्यविरोधः । तत्र किं मुख्यवृत्त्या सामान्यानि, विशेषा वेत्याह एतानि द्रव्यत्वादीनि प्रभूतविषयत्वात् 15 प्राधान्येन मुख्यवृत्त्या सामान्यानि । न हि विशेषाणां प्रभूतविषयत्वं सम्भवति, एकैकद्रव्यवृत्तित्वात् । स्वाश्रयविशेषकत्वाद् भक्तया उपचारेण विशेषाख्यानीति । व्यावृत्तिप्रत्ययजनकत्वं विशेषाणां स्वरूपम्, तस्येहाप्युपलब्धरुपचारः प्रवर्तत एव । तथाहि द्रव्यत्वादि सामान्यं स्वाश्रयमाश्रयान्तराद् व्यावृत्तं विशिनष्टि व्यावतयतीति इत्यतो विशेषाख्यामपि लभते । लक्षणभेदादेषां द्रव्यगणकर्मभ्यः पदार्थान्तरत्वं सिद्धम् । अत एव च नित्यत्वम् । द्रव्यादिषु वृत्तिनियमात् प्रत्ययभेदाच्च परस्परतश्चान्यत्वम् । प्रत्येकं स्वाश्रयेषु लक्षणाविशेषाद् विशेषलक्षणाभावाच्चैकत्वम् । यद्यप्यपरिच्छिन्नदेशानि सामान्यानि भवन्ति, तथाप्युपलक्षणनियमात कारणसामग्रीनियमाच्च स्वविषयसर्वगतानि । अन्तराले च संयोग25 समवायवृत्त्यभावादव्यपदेश्यानीति । अथ द्रव्यत्वादीनि द्रव्यगुणकर्मभ्योऽर्थान्तरम् स्वरूपाणि वा इत्याह लक्षणभेदादेषां द्रव्यगुणकर्मभ्य: पदार्थान्तरत्वं सिद्धम्। तच्चोक्तमभेदात्मक 20 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315