Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७६
व्योमवत्या
10
अथ ज्ञानमेवानुगतव्यावृत्ताकारं सामान्यमिति चेत्, सोऽयम् 'अश्वारूढस्य विस्मृतोऽश्वः' इति न्यायः, न ह्यनुगतनिमित्तं विना अनुगतज्ञानं सम्भवति, वासनादेनिमित्तस्य प्रतिषेधात् ।
यदपीदं सामान्यस्याधारे व्रजति, गमने क्रियावत्त्वम्, अवस्थाने चाना5 धारत्वमिति । तदसत् । बाधकोपपत्तौ गमनप्रत्ययस्य भाक्तत्वात् । तथा
च मूर्त्तत्वेन क्रियावत्त्वं व्याप्तम्, तच्च सामान्यादिभ्यो व्यावर्त्तमानं स्वव्याप्तं क्रियावत्त्वं गृहीत्वा व्यावर्त्तत इति निष्क्रियं सामान्यादि, मूर्त्तत्वे सत्येव अन्वयव्यतिरेकाभ्यामर्थेषु क्रियोपलब्धेः । सैव योग्यता, तदभावाच्चाकाशादौ क्रियाभावो न विभुत्वप्रतिबन्धात्, तदभावे हि गुणकर्मादावपि क्रियावत्त्वप्रसङ्गात् । यदि च कस्यचित् सामान्याधारस्य गमनात् सामान्यस्यापि गमनम्, तर्हि तस्यावस्थानेऽवस्थानञ्चेति 'न गच्छेन्नापि तिष्ठेत्' इति दुरुद्धरं व्यसनमापद्येत । तस्मात् संयोगविभागैकार्थसमवायाद् आधारगतं गमनमाधेयेऽप्यारोप्य प्रतिपद्यते सामान्यं गच्छति इति ।
___ यच्चेदम् 'न याति न च तत्रासोदस्ति पश्चान्न चांशवत्' इत्युक्तम्, .5 तत्सामान्यस्वरूपोपवर्णनम्, न तस्य प्रतिषेधपरम् । द्रव्यस्वरूपानुपलम्भेन
सामान्यस्यासत्त्वे सर्वस्याप्यसत्त्वं स्यात्, तदितरासत्त्वस्य सर्वत्राविशेषात् । सामान्यञ्च विशेषेष्वनुवर्त्तमानं प्रत्यक्षेणैव प्रसिद्धमिति तस्यानुपलम्भोऽसिद्धः । यदि च असत्त्वं सामान्यस्य, कथं स्वलक्षणविषयं प्रत्यक्षं सामान्यविषयमनुमानमिति स्यात् । अथ
अतद्रूपपरायत्तवस्तुमात्रप्रकाशनात् । सामान्यं सदिति प्रोक्तं लिङ्गभेदाप्रतिष्ठितेः ।। (धर्मकीतिः ?) इति ।
अयमस्यार्थः, दाहपाकादिसमर्थाग्निव्यतिरेकिणो जलादयोऽतद्रूपाः, तेभ्यो व्यावृत्तस्य तार्णपार्णादिविशेषरहितस्याग्निमात्रस्य ज्ञापनात् सामान्य
विषयो धूमः, तथा धूमज्ञानमपि अधूमव्यावृत्ततार्णादिविशेषरहितधूममात्र25 विषयमिति ।
_ नैतद्युक्तम् । सामान्यानभ्युपगमे मात्राभिधानस्य अर्थासम्भवात् । न चापोह एव मात्राभिधानस्यार्थः, तस्य अवस्तुत्वेनाजनकत्वात् । वस्तुत्वे च
For Private And Personal Use Only
Loading... Page Navigation 1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315