Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 286
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७७ 10 सामान्यवैधयंप्रकरणम् वास्तवमेव सामान्यमभ्युपगतमिति कः प्रतिकूलोऽनुकूलमाचरतीति ? न चाग्निव्यक्तीनां सामर्थ्यम्, तद्ग्राहकाविनाभावस्यैवाप्रसिद्धेः । न च धूमोपलम्भादग्निसामस्त्यप्रतिपत्तिर्दृष्टेति । अथ तार्णादीनामन्यतमो विशेषो मात्राभिधानविषयः ? हि कथं सामान्यविषयमनुमानम् । न चाग्निव्यक्तिषु विशिष्टार्थक्रियाकारितया समाना बुद्धिः, क्रियाणामपि परस्परं व्यावृत्तत्वा- 5 दित्युक्तन्यायात् । एतेन यदुक्तम् लिङ्गलिङ्गिधियोरेव पारम्पर्येण वस्तुनि । प्रतिबन्धात् तदाभासशून्ययोरप्यवञ्चनम् ।। (प्र. वा. २१८२) इत्येतदपास्तं भवतीति । तयोर्द्वयोः सामान्याभावे पारम्पर्येणापि वस्तुप्रतिबन्धाभावात् । न च अधूमव्यावृत्ताकाराद् विकल्पाद् अनग्निव्यावृत्ताकारो विकल्पः, तयोरविनाभावस्याप्रसिद्धः । अग्निप्रतिपत्तिमन्तरेणानग्नयो न प्रतीयन्ते, तदप्रतिपत्तौ नाग्निप्रतिपत्तिरितरेतराश्रयत्वप्रसङ्गात् । न च कार्यत्वेन धूमस्य गमकत्वमित्युक्तं व्याप्तिसमर्थनावसरे। तस्मात् सामान्यवतामविनाभावप्रसिद्धरनुमानमिच्छता अवश्यं सामान्यमभ्युपगन्त- 15 व्यम् । अन्यथा हि वास्तवसामान्यं विना भावस्याप्रसिद्धौ सङ्केताप्रतिपत्तेश्च नानुमानशब्दयोः प्रमाणता स्यादिति । अस्ति च तयोः प्रामाण्यम् । तस्मादर्थप्रतिपत्तौ प्रवर्त्तमानस्य अर्थक्रियासंवादेन विसंवादिनिवृत्तौ तद्व्याप्तस्य भ्रान्तत्वस्य निवृत्तिरित्युक्तं पूर्वम् । अतः स्वात्मरूपानुवृत्तिप्रत्ययकारणमिति । सङ्ग्रहवाक्यस्य विवरणमाह स्वरूपाभेदेनैकरूपेणाधारेषु शाबलेयादिपिण्डेषु प्रबन्धनानुपरमेण पूर्वपिण्डापरित्यागेन समवायवृत्त्या वर्तमानमनुवृत्तिबुद्धिकारणमिति । एकद्विबहुष्वित्यस्य विवरणमाधारेष्विति । अभेदात्मकपदस्य तु स्वरूपाभेदेनेति । कथम् इत्यव्युत्पन्नप्रश्नः, विपर्यस्ताक्षेपो वा । तथा चैकपिण्डोपलम्भकाले नानुगतं सामान्यं प्रतिभाति। 25 द्वितीयपिण्डोपलम्भकालेऽपि प्रथमपिण्डस्याग्रहणादनुगतज्ञानाभाव एव । यत्रापि एकं ज्ञानमनेकपिण्डालम्बनम्, तत्राप्यनुगज्ञानस्यानुपलम्भ एव इत्याक्षेपे सति प्रतिसमाधानमाह प्रतिपिण्डं सामान्यापेक्षमित्यादि । 20 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315