Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 263
________________ Shri Mahavir Jain Aradhana Kendra 10 व्योमवत्या तत्सम्बद्धेष्वपि कथम् ? यदा हस्तेन मुसलं गृहीत्वेच्छां करोति 'उत्क्षिपामि हस्तेन मुसलमिति', तदनन्तरं प्रयत्नः, तमपेक्षमाणादात्महस्तसंयोगाद् यस्मिन्नेव काले हस्ते उत्क्षेपणकर्मोत्पद्यते तस्मिन्नेव काले तमेव प्रयत्नमपेक्षमाणाद् हस्तमुसलसंयोगात् सुसलेऽपि कर्मेति । ततो 5 दूरमुत्क्षिप्ते मुसले तदर्थेच्छा निवर्त्तते । पुनरपि अपक्षेपणेच्छोत्पद्यते, तदनन्तरं प्रयत्नः, तमपेक्षमाणाद् यथोक्तात् संयोगाद् हस्तमुसलयोर्युगपदपक्षेपणकर्मणो भवतः । ततोऽन्त्येन मुसलकर्मणा उलूखलमुसलयोरभिघाताख्यः संयोगः क्रियते । स संयोगो मुसलगतवेगमपेक्षमाणोऽप्रत्ययं मुसले उत्पतनकर्म करोति । तत् कर्म अभिघातापेक्षं मुसले संस्कारमारभते । तमपेक्ष्य मुसलहस्तसंयोगोऽप्रत्ययं हस्तेऽप्युत्पतनकर्म करोति । यद्यपि प्राक्तनः संस्कारो विनष्ट:, तथापि मुसलोलूखलयोः संयोगः पटुकर्मोत्पादकः संयोगविशेषभावात् तस्य संस्कारारम्भे साचिव्यसमर्थो भवति । www.kobatirth.org २५४ 25 Acharya Shri Kailassagarsuri Gyanmandir अथवा प्राक्तन एवं पदुः संस्कारोऽभिघातादविनश्यन्नवस्थित 15 इति । अतः संस्कारवति पुनः संस्कारारम्भो नास्ति, अतो यस्मिन् काले संस्कारापेक्षादभिघातादप्रत्ययं मुसले उत्पतनकर्म तस्मिन्नेव काले तमेव संस्कारमपेक्षमाणात् मुसलहस्तसंयोगादप्रत्ययं हस्तेऽप्युत्पतनकर्मेति । तत्सम्बद्धेष्वपि मुसलादिषु कथं कर्म भवतीत्यव्युत्पन्नप्रश्नानन्तरमाह हस्तेन मुसलं गृहीत्वा इच्छां करोति । किं विशिष्टाम् ? उत्क्षिपामि हस्तेन 20 मुसलमित्येवं रूपाम् । तदनन्तरं हस्तवत्यात्मप्रदेशे प्रयत्नस्तदनुरूप:, तमपेक्षमाणाद् आत्महस्तसंयोगादसमवायिकरणाद् यस्मिन् काले हस्ते समवायिकारणे कर्मोत्पद्यते तस्मिन्नेव काले तमेव प्रयत्नमपेक्षमाणाद् हस्तमुसलसंयोगादसमवायिकारणान्मुसलेऽपि कारणे कर्म । ततो दूरमुत्क्षिप्ते मुसले तदर्थेच्छा उत्क्षेपणेच्छा निवर्त्तते । स्वकारणात् पुनरपि अपक्षेपेणेच्छोत्पद्यते । तदनन्तरं हस्तवत्यात्मप्रदेशे प्रयत्नः तदनुरूपः, तमपेक्षमाणाद् यथोक्तात् संयोगद्वयाद् इति आत्महस्तसंयोगान्मुसलहस्तसंयोगाच्च प्रयत्नापेक्षाद् हस्तमुसलयोर्युगपद् अपक्षेपणकर्मणी भवतः । ततोऽन्त्येन आवसानिकेन मुसल For Private And Personal Use Only

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315