Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 268
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ___10 कर्मवैधयंप्रकरणम् २५९ अथ संयोगविभागोपलम्भादनुमीयते कर्मेति चेत्, न, संयोगवदिन्द्रियव्यापारेणैव कर्मण्यपि अपरोक्षज्ञानसद्भावस्याविशेषात् । यथा हि वस्तुनः प्रदेशान्तरैः संयोगविभागाः प्रत्यक्षेण प्रतीयन्ते, तद्वत् कर्मापीति । यच्च प्रदेशान्तरैः संयोगविभागोपलम्भे सति चलतीति ज्ञानम् आनुमानिकमितीष्टम्, तन्न युक्तम्, नदीस्रोतस्यूविस्थितस्य स्थाणोस्त- 5 त्सद्भावेऽपि चलनप्रत्ययादर्शनात् । आकाशे प्रक्षिप्तस्येषोस्तदभावेऽपि तत्सद्भावदर्शनात् । यच्चेदम् एकस्मिन् स्थाने प्रतिक्षणमुत्पादात् तिष्ठतीति व्यवहारः, देशान्तरे च तद्भावाद् गमनव्यवहार इत्युक्तम्, तन्न युक्तम्, क्षणभङ्गप्रतिषेधात् । अथ संयोगबहुत्वाद् बहूनि कर्माणीति सत्यम् । न चैवं संस्कारस्यापि संयोगबहुत्वाद् बहुत्वम्, तस्य संयोगमात्रेणाविनाशात् । विनाशे वा कर्मान्तराणामुत्पत्तिर्न स्यात्, असमवायिकारणाभावात् । न च चात्मेषुसंयोग एव अदृष्टापेक्षोऽसमवायिकारणम्, प्रत्यक्षानुमानाभ्यां कारणान्तरानुपलम्भे सति तत् कल्पनायाः समाश्रयणात् । उपलभ्यते च अक्षव्यापारेणैव वेगः, 15 तस्य प्रत्याख्यानमशक्यम् ।। __ अथ संस्कारादुपजातकर्मणि उत्तरसंयोगाद् वेगस्य कर्मणश्च विनश्यत्ता, अन्ययोश्च वेगकर्मणोरुत्पद्यमानता, अतस्तयोरुत्पादः प्राक्तनयोश्च विनाश इति कल्पनायां किं दूषणम् ? विनश्यदवस्थस्यासमवायिकारणत्वस्याभाव इत्येतत् । तथाहि न प्राक्तनं कर्म संस्कारान्तरमारभते, नापि प्राक्तनो वेगः 20 कर्मान्तरम्, उभयोविनश्यदवस्थत्वेनासमवायिकारणत्वाभावात् । न चान्यदसमवायिकारणम् अन्तराले कर्मणः सम्भवतीत्युक्तम् । यच्च संस्कारादुत्पन्न कर्म तन्न संस्कारान्तरमारभते, अपेक्षाकारणाभावात् । नापि प्राक्तनः संस्कारोऽपेक्षाकारणम्, संस्कारवति संस्कारारम्भप्रतिषेधाद् अवश्यं कर्मान्तरोत्पत्तिसमकालमुत्तरसंयोगात् पूर्वकर्मनिवृत्तिवत् पूर्वसंस्कारस्यापि 25 निवृत्तिर्वाच्या । न च संयोगमात्रमपेक्षाकारणं कर्मणः संस्कारारम्भे, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315