Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 269
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवत्या २६० मन्दगतावदर्शनात् । तथाहि मन्दगतौ संयोगसद्भावेऽपि न कर्म संस्कारमारभत इत्युपलब्धम् । तस्मादेक एव संस्कारोऽन्तराले कर्मणोऽपेक्षाकारणाभावादिति। नन्वेवं तर्हि संस्कारस्यैकरूपत्वात् कथं तीव्रतरादिभेदभिन्नानां कर्मणामुत्पत्तिः ? सहकारिभेदात् । स च कार्यभेदेनैव ज्ञेयः । तत्र दृष्टस्यानुपलब्धेरदृष्टाख्यः कल्पत इति । क्षिप्तस्येषोः पातोपलम्भेन च वेगविनाशप्रसिद्धेः, तस्य सहेतुत्वादन्यस्य च विनाशहेतोरभावादनेककार्यकरणे सति शक्तिप्रक्षयाद्विनाशः कल्प्यत इति । सा च शक्तिरदृष्टविशेष एव अनेककर्म सम्पादकः । एतच्चानेकसंस्कारवादिनाप्यभ्युपगन्तव्यम् । अन्यथा हि 10 पुनः संस्कारोत्पत्तेरिषोरपात एव स्यात् । तस्मादुक्तन्यायेनैक एव संस्कार इति। एवमात्माधिष्ठितेषु सत्प्रत्ययमसत्प्रत्ययञ्च कर्मोक्तम् । उपसंहारमाह एवमात्माधिष्ठितेषु प्रयत्नद्वारेण अनधिष्ठितेषु सत्प्रत्ययमसत्प्रत्ययञ्च कक्तिम् । अनधिष्ठितेषु बाह्येषु चतुएं महाभूतेष्वप्रत्ययं कर्म गमनमेव नोदनादिभ्यो भवति । तत्र नोदनं गुरुत्वद्रवत्ववेगप्रयत्नात् समस्तव्यस्तानपेक्षमाणो यः संयोगविशेषः, नोदनं परस्परमविभागकृतः कर्मणः कारणम् । तस्माच्चतुर्वपि महाभूतेषु कर्म भवति । यथा पकाख्यायां पृथिव्याम् । 20 इदानीमनधिष्ठितेषु बाह्येषु शरीरासम्बद्धेषु, आकाशादिनिवृत्त्यर्थं चतुर्पु, महाभूतेष्विति परमाणुनिवृत्त्यर्थम् । अप्रत्ययमप्रयत्नपूर्वकं कर्म गमनमेव नोदनादिभ्यो भवति । आदिपदेनाभिघातसंयुक्तसंयोगगुरुत्वादेर्ग्रहणम् । तत्र नोदनं व्याख्यायते, गुरुत्वद्रवत्वप्रयत्नवेगान् समस्तव्यस्तानपेक्षमाणो यः संयोगविशेषः, नोदनं परस्परमविभागकृतः कर्मणः कारणमिति । यः 25 संयोगस्तन्नोदनमित्युक्तेऽतिप्रसङ्गः, तदर्थं कर्मणः कारणमिति । अभिघातोऽ प्येवं भवतीति अविभागकृत इति पदम् । तथाप्युत्पन्नस्य कर्मणोऽवश्यं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315