Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 267
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५८ व्योमवत्यां एवम् आकर्णात् कर्णं यावद् आकृष्टे धनुषि नातः परमनेन गन्तव्यमिति यज्ज्ञानम् ततस्तदाकर्षणार्थस्य प्रयत्नस्य विनाशः, ततः पुनर्मोक्षणेच्छा सञ्जायते । तदनन्तरं तदनुरूपः प्रयत्नः, तमपेक्षमाणाद् आत्माङ्गुलि संयोगाद् असमवायिकारणाद् अङ्गुलिषु मोचनार्थं कर्मोत्पद्यते । तस्मा5 दगुलिज्याविभागः, ततो विभागात् तत्संयोगविनाशः, तस्मिन् विनष्टे प्रतिबन्धकाभावान्मण्डलीभूतं धनुर्यथावस्थितं स्थापयतीति स्थितिस्थापकसंस्कारो धनुषि कर्मारभते । तत्र धनुः समवायिकारणं स्थितिस्थापकसंस्कारोऽसमवायिकारणमदृष्टादिनिमित्त कारणमिति । यदैव धनुष्याकर्षणकर्मणा मण्डलीकृते स्थितिस्थापनार्थ स्थितिस्थापकसंस्कारात् कर्मोत्पद्यते तदा तमेव संस्कारमपेक्षमाणाद् धनुष: ज्यासंयोगाद् ज्याशरसंयोगाद् असमवायिकारणात् ज्यायां शरे च कर्मोत्पद्यते । तद् उत्पन्नं स्वकारणापेक्षं ज्यायां संस्कारमारभते । तमपेक्षमाण इषुज्यासंयोगो नोदनम्, तयोः सह गमनात् तस्माद् इषावाद्यं कर्मोत्पद्यते। तच्च नोदनापेक्षमिषौ संस्कारमारभते । तत्रेषुः समवायिकारणम्, कर्मासमवायिकारणम्, नोदनं निमित्तकारणमिति । 15 तस्मात् संस्कारान्नोदनसहायात् तावत् कर्माणि भवन्ति यावदिषुज्याविभागः, तदुत्पतौ ज्येष्वोः समवायिकारणत्वम्, इषुकर्मणोऽसमवायिकारणत्वम्, शेषं निमित्तकारणम् । ततो विभागान् निवृत्ते नोदने कर्माणि उत्तरोत्तराणि इषुसंस्कारादेव, आपतनादिति पतनं यावत् तावदिति । बहूनि कर्माणि क्रमशः । कस्मात् ? संयोगबहुत्वात् । तत् सद्भावेऽपि अविनाशे सर्वदा 20 इषोरपातः स्यात् ।। अथैकमपि कर्मानेकं संयोगं कृत्वा शक्तिमान्द्याद् विनश्यतीति ? तर्हि संस्कारस्यानारब्धकार्यस्यावस्थानाद् अन्यत् कर्मान्तरमित्यपात एव स्यात् । न च संस्कारस्य संयोगजनकत्वम्, येन अनेककार्यकरणे शक्तिमान्द्याद् विनाशः स्यात् । तेषां कर्मकार्यत्वात्, तत्तस्तदुत्पादे कर्मणामेव विनाशो 25 युक्तः । न च संस्कारादभिन्नमेव कर्मेति वाच्यम्, प्रत्ययभेदस्य भेदलक्षण त्वात् । तथा च वेगेन गच्छतीति वेगानुरक्तो गमनानुरक्तश्च प्रत्ययो दृष्ट: । तस्माद् वेगः संयोगवत् कर्मणोऽर्थान्तरमिति । अभेदे तु मन्दगमनादावपि वेगेन गच्छतोति प्रत्यय: स्यात्, न चैतदस्ति । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315