Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 264
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मवैधर्म्यप्रकरणम् २५५ कर्मणा उलखलमुसलयोरभिघाताख्यः संयोगः क्रियते । स संयोगोऽसमवायिकारणभूतो मुसलगतं वेगमपेक्षमाणोऽप्रत्ययमप्रयत्नं मुसलेऽप्युत्पतनकर्म करोति । तत् कर्म असमवायिकरणमभिघातापेक्षं मुसले समवायिकारणे संस्कामारभते । तमपेक्ष्य मुसलहस्तसंयोगोऽप्रत्ययमप्रयत्नपूर्वकं हस्तेऽप्युत्पतनकर्म करोति । ननु मुसलोलूखलसंयोगान्मुसले कर्मोत्पत्तिसमकालं प्राक्तनसंकारविनाशे अपेक्षाकारणभावान्न मुसले कर्म संस्कारमारभते, तदभावे च हस्तमुसलसंयोगः कथं हस्ते अप्रत्ययमुत्पतनकर्म कुर्यादित्याशङ्क्याह यद्यपि प्राक्तनः संस्कारो विनष्टः, तथापि मुसलोलखलसंयोग: पटुकर्मोत्पादकः । कुतः ? संयोगविशेषभावात् । अतस्तस्य कर्मणः संस्कारसाचिव्ये समर्थों भवति । 10 सचिवस्य भावः साचिव्यं साहाय्यं तत्र समर्थो भवतीति । अथवा प्राक्तन एव पटु: संस्कारोऽभिधातादविनश्यन्नवस्थित इति पक्षान्तरं दर्शयति । प्राक्तनस्य पटसंस्कारस्यावस्थाने संस्कारवति पुनः संस्कारारम्भो नास्तीत्यतो यस्मिन् काले संस्कारापेक्षादभिघातादप्रत्ययं मुसले उत्पतनकर्म तस्मिन्नेव काले तमेव संस्कारमपेक्षमाणान्मसलहस्त- 15 संयोगादप्रत्ययं हस्तेऽप्युत्पतनकर्मेति । पाणिमुक्तेषु गमन विधिः । कथम् ? यदा तोमरं हस्तेन गृहीत्वा उत्क्षोप्तुमिच्छोत्पद्यते तदनन्तरं प्रयल, लमपेक्षमाणाद् यथोक्तात् संयोगद्यात् तोपरहस्तयोर्युगपदाकर्षकर्मणी भवतः । प्रसारितेच हस्ते तदाकर्षणार्थः प्रयत्नो निवर्तते, तदनन्तरं तिर्यगूच दरमासन्नं वा 20 क्षिपामीतीच्छा सञ्जायते, तदनन्तरं तदनुरूपः प्रयत्नः, तमपेक्षमाणस्तोमरहस्तसंयोगो नोदनाख्यः, तस्मात् तोमरे कर्मोत्पन्न नोदनापेक्षं तस्मिन् संस्कारमारसते । ततः संस्कारनोदनाभ्यां तावत कर्माणि भवन्ति यावद् हस्ततोमरविभाग इति । ततो विभागानोदने निवृत्ते संस्कारावं तिर्यग् दरम् आसन्न वा प्रयत्नानुरूपाणि कर्माणि 25 भवन्ति आपतनादिति । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315