Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 226
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २१७ तस्माच्च शान्तमनसां सुखम् । सन्तोषो विषयेष्वलम्प्रत्ययः, तस्माच्च सुखम् । केषाञ्चिद् धर्मविशेषाच्चेति । अन्ये तु विद्यया जनितः सः शमः, तस्मात् सुखमिति । शेषं पूर्ववत् । दुःखवैधर्म्यम् वैधर्म्यप्रकरणम् Acharya Shri Kailassagarsuri Gyanmandir उपघातलक्षणं दुःखम् । विषाद्यनभिप्रेत विषयसान्निध्ये सति अनिष्टोपलब्धीन्द्रियार्थसन्निकर्षाद् अधर्माद्यपेक्षादात्ममनसोः संयोगाद् यद् अमर्षोपघात दैन्यनिमित्तमुत्पद्यते, तद् दुःखम् । अतीतेषु सर्पव्याघ्रचौरादिषु स्मृतिजम् । अनागतेषु सङ्कल्पजमिति । २८ ॐ 募 दुःखनिरूपणार्थमाह * उपघातलक्षणम् उपघातस्वरूपं दुःखमिति । उपहन्यतेऽनेनेति उपहतमात्मानं मन्यत इति । कारणमाह [ विषाद्यनभि- 10 प्रेतविषयसान्निध्ये सति ] विषादयश्च तेऽनभिप्रेतविषयाश्चेति, तेषां सान्निध्ये सतीति । अभिप्रेताश्च विषयादयः सुखहेतव एवेत्यनभिप्रेतग्रहणम् । [ * अनिष्टोपलब्धीन्द्रियार्थसन्निकर्षादधर्माद्यपेक्षात् ] अनिष्टोपलब्धिश्च इन्द्रियार्थसन्निकर्षश्चेति तथोक्तः, तस्मादधर्मापेक्षादित्यादिपदेन दिक्कालादेग्रहणम् । तस्मादनिष्टोपलब्धीन्द्रियार्थसन्निकर्षाद् अधर्माद्यपेक्षादात्ममनसोः 15 संयोगादसमवायिकारणाद् आत्मनि समवेतं यद् उत्पद्यते तद् दुःखम् । अमर्षोपघात दैन्यानां निमित्तं कारणम्, तदितरस्माद् भेदकमिति ज्ञेयम् । अतीतेषु सर्पादिष्विति कार्यनिरूपणम् । अमर्षोऽसहिष्णुता, उपहतिरुपघातो दुःखालम्बनं ज्ञानमिति । दैन्यं दीनरूपता दुःखादुत्पद्यत इति । तदेतद् असाधारणत्वाद् इतरस्माद् भेदकमिति ज्ञेयम् । अतीतेषु सर्पव्याघ्रचौरा - 20 दिषु दुःखसाधनेषु, • स्मृतिजम्, अनागतेषु सङ्कल्पजमिति । इच्छावैधर्म्यम् * * * 5 स्वार्थ परार्थं वा अप्राप्तप्रार्थनेच्छा । सा चात्ममनसोः संयोगात् सुखाद्यपेक्षात् स्मृत्यपेक्षाद् वा उत्पद्यते । प्रयत्नस्मृतिधर्माधर्महेतुः । कामोऽभिलाषः, रागः सङ्कल्पः, कारुण्यम्, वैराग्यम्, उपधा, भाव इत्येव- 25 मादय इच्छाभेदाः । मैथुनेच्छा कामः, अभ्यवहारेच्छा अभिलाषः, पुनः For Private And Personal Use Only

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315