Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
२१५ लिङ्गानपेक्षं धर्मादिषु दर्शनमिष्टं तदपि प्रत्यक्षार्षयोरन्यतरस्मिन् अन्तभूतमित्येवं बुद्धिरिति ।
सिद्धदर्शनं विद्यान्तरमिष्टं परैस्तन्निषेधार्थमाह - सिद्धदर्शनं न ज्ञानान्तरम् * इति । आर्षज्ञानानन्तरमस्य अन्तर्भावनिरूपणम् आर्षेऽप्यन्तर्भावार्थम् । यत् सिद्धानां दर्शनमुत्पद्यते तत्प्रत्यक्षमेव । केष्वर्थेषु ? * सूक्ष्म- 5 व्यवहितविप्रकृष्टेषु इति । सूक्ष्माः परमाणवः, व्यवहिता नागभुवनादयोऽस्मदादीन्द्रियापेक्षया । न तु सिद्धेन्द्रियाणां व्यवधायकमस्ति । विप्रकृष्टा मेर्वादयः, तेषु । सिद्धानां कि विशिष्टानाम् ? मुक्तात्मव्यवच्छेदार्थ * दृश्यद्रष्टृणाम् * इति । किञ्च तेषां सद्भावे प्रमाणमित्याह * दृश्यानाम् । कदाचिद् अञ्जनादिवियुक्ताः प्रत्यक्षेणाप्युपलभ्यन्ते । का पुनस्तेषां सिद्धिरित्याह 10 * अञ्जनपादलेपखड्गगुलिकादिसिद्धानाम् * इति । आदिपदेन चिन्तामणिप्रभृतीनां ग्रहणम् । अञ्जनादिवशाच्च सिद्धेन्द्रियाणां सूक्ष्माद्यर्थप्रकाशनम्, अतः तत् प्रत्यक्षमेव * [न] ज्ञानान्तरमिति । ____ अथ ज्योतिषामयनं दृष्ट्वा प्राणिनां शुभमशुभं वा भविष्यतीति ज्ञानं प्रमाणान्तरमिष्टं तनिषेधार्थम् * दिव्यान्तरिक्षभौमानाम् * इत्यादि । 15 दिवि भवं दिव्यमुल्कापातादि, अन्तरिक्षे भवश्चान्तरिक्षं दिग्दाहादि, भूमौ भवं भौमं भूसञ्चलनादि, तेषाम् । * ग्रहनक्षत्रसञ्चारादिनिमित्तम् * उपलभ्य प्राणिनां धर्माधर्मयोर्विपाकः फलदानसामर्थ्यं तद्दर्शनं न] ज्ञानान्तरमिष्टम् * तदप्यनुमानमेव * लिङ्गदर्शनानु[बन्ध] स्मरणादिजन्यत्वात् ।
यद् वा दिव्यान्तरिक्षभौमानां सुरसिद्धमनुष्याणां प्राणिनां ग्रहनक्षत्र- 20 सञ्चारादिनिमित्तमुपलभ्य धर्माधर्मयोविपाकदर्शन मिष्टं तदप्यनुमानमेवेति ।
अथ लिङ्गानपेक्षं धर्माधर्मादिषु दर्शनमिष्टं तदपि यदि इन्द्रियार्थसन्निकर्षादपरोक्षमुत्पद्यते प्रत्यक्षमेव । अथेन्द्रियार्थसन्निकर्ष विनैव धर्मविशेषादुत्पद्यते तथाप्यार्षमित्याह * प्रत्यक्षाय रन्यतरस्मिन्नन्तर्भूतमिति * । * एवं बुद्धिरिति * उपसंहार: परोपगताया बुद्धेविनाशपर इति ।
25 सुखवैधर्म्यम्
अनुग्रहलक्षणं सुखम् । स्त्रगाद्यभिप्रेतविषयसान्निध्ये सति इष्टोप
For Private And Personal Use Only
Loading... Page Navigation 1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315