Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 242
________________ Shri Mahavir Jain Aradhana Kendra गुणधर्म्यप्रकरणम् २३३ गुरुशुश्रूषा तदुपासनम् । अग्नीन्धनम् अग्न्यर्थमिन्धनाहरणम् । भिक्षाणां समूहो भैक्षं माधुकरी भिक्षा, तदाचरणम् । मधुमांसदिवास्वप्नाञ्जनाभ्यञ्जनादिवर्जनम् । एतत्तु प्रतिवेदं द्वादशवर्षाणीत्यष्टचत्वारिंशद् वर्षाणि विद्याव्रतं यावद् ग्रहणं भवेत् । * www.kobatirth.org ततो विद्याव्रतस्नातकस्य चीर्णविद्याव्रतस्य कृतदारस्योद्वहितपत्नीकस्य गृहस्थस्य धर्मसाधनान्युच्यन्ते । ते चतुर्विधाः, वार्त्तावृत्तयः, शालीनवृत्तयः, यायावराः, घोरसंन्यासिकाश्चेति । तत्र वार्त्तावृत्तयः कृषिवाणिज्यादिकमनिन्दितं शास्त्रेणैव युञ्जन्तः शतसंवत्सराभिः क्रियाभिर्यजन्तो याजयन्त आत्मानं प्रार्थयन्ते । शालीनवृत्तयस्तु यजन्तो याजयन्तो ददतः प्रतिगृह्णन्तः शतसंवत्सराभिः क्रियाभिरात्मानं प्रार्थयन्ते । यायावरास्तु अधीयन्तो न [ अध्यापयन्तः, यजन्तो न ] याजयन्तः ददत्तो न प्रतिगृह्णन्तः, इत्यात्मानं प्रार्थयन्ते । तत्र घोरसंन्यासिका नाम उद्धृतपरपूताभिरद्भिः कार्यं कुर्वाणाः प्रतिदिनमाहृतोञ्छवृत्तिमुपजीवन्तः शतसंवत्सराभिः क्रियाभिर्यजन्त आत्मानं प्रार्थयन्ते । उदाहरणार्थंञ्च गृहस्थद्वयम् । उक्त [ शीलान ? शालीन ] यायावरवृत्त्युपार्जितैर्द्रव्यैर्भूतमनुष्यदेवपितृब्रह्माख्यानां पञ्चानां महायज्ञानां सायं प्रातरनुष्ठानम् । सायमपराह्णम्, प्रातः प्रत्युषसि । तत्र बाह्यबलिना भूतयज्ञः हन्तकारेण [ = अतिथिदेयतण्डुलेन ] मनुष्ययज्ञः, पुष्पपत्राद्युत्सर्गेणाग्निसन्तर्पणेन देवयज्ञः । अतिदानेन पितृयज्ञः, वेदाध्ययनेन ब्रह्मयज्ञ इत्येषां सायं प्रातरनुष्ठानम् । एकाग्निविधानेन एकोऽग्निविवाहकाले परिगृहीत इति । नैमित्तिकानान्तु परस्परं व्यावृत्तमनुष्ठानभेदं दर्शयति पाकयज्ञ संस्थानाम् इत्यादिना । पाकयज्ञसंस्थास्तु पार्वणं श्राद्धं श्रावण्याग्रहायणी तथा । و 2 Acharya Shri Kailassagarsuri Gyanmandir 7 For Private And Personal Use Only 5 10 15 20 अष्टकाः चैत्री चाश्वयुजी चैव (सप्त ? ) पाकसंस्था इमाः स्मृताः ॥ एषाञ्च नित्यानां शक्तौ विद्यमानायामनुष्ठानम् । असमर्थस्य त्वकरणेऽपि न दोष इति । तदेवाह 'जरया ह वा एष एतस्मात् सत्राद् विप्रमुच्यते 25 मृत्युना वेति' । अग्न्याधेयानाञ्च हविर्यज्ञसंस्थानाम् । अग्न्याधेयोऽग्निहोत्रं दर्शपूर्णमासौ च चातुर्मास्याग्रहायणेष्टिनिरूढपशुबन्धसौत्रामणी चेति सप्त ३०

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315