Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 243
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३४ व्योमवत्यां हविर्यज्ञसंस्थाः । अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयोऽतिरात्राप्तोर्याम इति सप्त होमयज्ञसंस्थाः । तदाह 'सोमयज्ञसंस्थानामग्निष्टोमादीनामिति' । एवमन्येऽपि यज्ञविशेषास्तच्छास्त्रप्रसिद्धा एव ग्राह्या इति । ऋत्वन्तरेषु ब्रह्मचर्यमपत्योत्पादनश्च । वनस्थस्य धर्मसाधनमाह * ब्रह्मचारिणो गृहस्थस्य वा वनवासः * इति। उक्तञ्च 'यदि वा ब्रह्मचर्यादेव प्रव्रजेत्' इति । अतो ब्रह्मचारिणो गृहस्थस्य वा अधिकारः । तेऽपि चतुर्विधाः, वैखानसाः, औदुम्बराः, बालखिल्या:, फेनपाश्चेति । तत्र वैखानसा नाम अकृष्टपच्याभिरौषधीभिमबहिष्कृताभिरग्निपरिचरणं कृत्वा पञ्चमहायज्ञक्रियां 10 निवर्तयन्त आत्मानं प्रार्थयन्ते। तत्रौदुम्बरा नाम प्रातरुत्थाय यां दिशं प्रेक्षन्ते तदाहतैर्बदरनीवारश्यामाकैरग्निपरिचरणं कृत्वा पञ्चमहायज्ञक्रियां निवर्तयन्त आत्मानं प्रार्थयन्ते । तत्र बालखिल्या नाम जटाधरा चीरवल्कलसंवृताङ्गाः पौर्णमास्यां वा कात्तिक्यां पुष्यादिभक्षमुत्सृजन्त अष्टौ मासान् वृत्युपार्जनं कृत्वा पञ्चमहायज्ञक्रियां निवर्तयन्त आत्मानं प्रार्थयन्ते । तत्र फेनपा नाम उद्दण्डकानुन्मत्ताः शीर्णपत्राभिभोजिनो यत्र तत्र वा वसन्त आत्मानं प्रार्थयन्ते । तदेवाह * वल्कलाजिनकेशश्मश्रुनखरोमधारणं वन्याम्बुहुतातिथिशेषभोजनानि वनस्थस्य * इति । यत्याश्रममुपदर्शयन्नाह * त्रयाणामन्यतमस्य * इति । त्रयाणां ब्रह्मचारिगृहस्थवानप्रस्थानामन्य तमस्य । किं विशिष्टस्य ? * श्रद्धावतः । सर्वभूतेभ्यो नित्यं सर्वदा अभयं 20 दत्वा । उक्तञ्च 'न हिंस्यात् सर्वभूतानीति' । * संन्यस्य स्वानि कर्माणि * अग्नि होत्रादीनि। * यमनियमेष्वप्रमत्तस्य * इति । अहिंसादयो यमाः, शुश्रूषादयो नियमाः, तेष्वप्रमत्तस्य । * षट्पदार्थप्रसंख्यानात् * परिज्ञानाद् * योगसाधनं प्रव्रजितस्य * इति । योग एव तस्य धर्मसाधनम् । उक्तन्यायेन तेऽपि चतुर्विधाः; कुटीचकाः, बहूदकाः, हंसाः, परमहंसा25 श्चेति । कुटीचकास्त्रिदण्डकमण्डलुकन्थादिधारिणो ज्ञातिगृहेषु भोजिनः । बहूदका नाम ब्राह्मणगृहेषु भिक्षाशिनः शून्यागारदेवगृहवासिनः । हंसा नाम शिखाकमण्डलुदण्डहस्ता ग्रामैकरात्रवासिनस्तीर्थादिषु त्रिपञ्चरात्रम्, एवं पक्षोपवासादिभिरात्मानं प्रार्थयन्ते । परमहंसास्त्वेकदण्डधराः, मुण्डाः, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315