Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 257
________________ Shri Mahavir Jain Aradhana Kendra २४८ www.kobatirth.org 15 व्योमवत्यां गच्छतीति । तस्माद् गमनमेव सर्वमित्युपसंहारः । न वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिदर्शनादिति प्रतिसमाधानवाक्यम् । यदुक्तं सर्वं गमनमिति, एतन्न, उत्क्षेपणादिवर्गेषु प्रत्ययानुवृत्तिव्यावृत्तिदर्शनात् । तदेवाह इहोत्क्षेपणम्, परत्रापक्षेपणमित्येवमादि सर्वत्र वर्गश इति वर्गे वर्गे प्रत्यया5 नुवृत्तिर्व्यावृत्तिश्च दृष्टा । तथाहि उत्क्षेपणमुत्क्षेपणमित्युत्क्षेपणवर्गेऽनुवर्तते, अपक्षेपणादिवर्गाच्च व्यावर्त्तते । तथा अपक्षेपणं स्ववर्गेऽनुवर्तते भेदान्तराच्च, व्यावर्त्तत इति । तद्धेतुः अनुगतव्यावृत्तज्ञानहेतुः उत्क्षेपणत्वादिसामान्यविशेषोऽवगम्यत इति । न गमनत्वमेकमेव सामान्यम्, उत्क्षेपणादिभेदानां परस्परव्यावृत्तजातिसम्बन्धिनां उदाद्युपसर्गविशेषात्तेषां 10 परस्परविशेषः । तथाहि उत्पूर्वं क्षेपणमुत्क्षेपणम्, अपपूर्वम् अपक्षेपणम्, आत् पूर्वं कुञ्चनम् आकुञ्चनम् प्रपूर्वं सारणं प्रसारणम्, गमनं तुपसर्गाभावादेव विशिष्यते । प्रतिनियत दिग्विशिष्टकार्यारम्भत्वाद् उपलक्षणभेदोऽप्युक्षेपणादीनां सिद्ध इति । तथा चोर्ध्वं संयोगकारणमवश्च विभागकारणमुत्क्षेपणस्योपलक्षणमित्येवमाद्युक्तम् । उपलक्षणस्य चोत्क्षेपणत्वादेर्भेद इति । सद्भावात् । Acharya Shri Kailassagarsuri Gyanmandir एवमपि पञ्चैवेत्यवधारणानुपपत्तिः । निष्क्रमणप्रवेशनादिष्वपि वर्गश: प्रत्ययानुवृतिव्यावृत्तिदर्शनात् । यद्युत्क्षेपणादिषु सर्वत्र वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिदर्शनाज्जातिभेद इष्यते, एवश्व निष्क्रमणप्रवेशना विश्वपि । कार्यभेदात् तेषु प्रत्ययानुवृत्तिव्यावृत्ती इति चेत्, न, उत्क्षेपणादिष्वपि कार्यभेदादेव प्रत्ययानुवृत्तिव्यावृत्ति20 प्रसङ्गः । अथ समाने वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिसद्भावे उत्क्षेपणादीनामेव जातिभेदो न निष्क्रमणादीनामित्यत्र विशेषहेतुरस्तीति । न, जातिसङ्करप्रसङ्गात् । निष्क्रमणादीनां जातिभेदात् प्रत्ययानुवृत्तिव्यावृत्तौ जातिसङ्करः प्रसज्यते । कथम् ? द्वयोर्द्वष्ट्रोरेकस्मादपवरकादपवरकान्तरं गच्छतो युगपनिष्क्रमण प्रवेशनप्रत्ययौ दुष्टों, तथा द्वारप्रदेशे प्रविशति निष्क्रामतीति च । यदा तु प्रतितीराद्यपनीतं भवति, तदा न प्रवेशनप्रत्ययो नापि निष्क्रमणप्रत्ययः; किन्तु गमनप्रत्यय एव भवति । तथा नालिकायां वंशपत्रादौ पतति बहूनां द्रष्टां युगपद् भ्रमणपतन For Private And Personal Use Only

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315