Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 260
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मवैदप्रकरणम् २५१ चेत्यवयवावयविनौ तयोदिग्देशविशिष्टसंयोगविभागाः, तद्भेदादिति । तदेवाह यो हि द्रष्टा अवयवानां पार्श्वतः पर्यायेण दिक्प्रदेश: संयोगविभागान् पश्यति तस्य भ्रमणप्रत्ययो भवति । यस्त्ववयविन्यूर्ध्व प्रदेशाद् विभागमधः संयोगञ्चावेक्षते तस्य पतति पत्रमिति पतनप्रत्ययो भवति । यः पुनर्नालि कान्तदेशे गतन्तिर्देशे संयोगं बहिर्देशे च विभागं पश्यति तस्य प्रविशति पत्रमिति प्रवेशनप्रत्ययः । तस्मात् सिद्धः कार्यभेदान्निष्क्रमणादीनां प्रत्ययभेदो न जातिभेदादिति । अन्ये तु भ्रमणरेचनस्यन्दनोर्ध्वज्वलनादिभेदेन कर्मणामसङ्ख्यातत्वानिष्क्रमणादीनां जातिभेदात् प्रत्ययभेदसिद्धौ न किञ्चिद् बाधकमस्तीत्यतो नेदं स्वमतमिति । न च भ्रमणरेचनादीनां गमन एवान्तर्भाव इति मन्यन्ते । 10 एतत्तु न युक्तम्, तस्य कर्मत्वपर्यायत्वेन वच्यमाणत्वात्, जातिसङ्करप्रसङ्गस्य च बाधकस्य दृढत्वादिति । भवतूत्क्षेपणादीनां जातिभेदात् प्रत्ययभेदः, निष्क्रमणादीनान्तु कार्यभेदादिति । अथ गमनत्वं किं कर्मत्वपर्यायः ? आहोस्विदपरं सामान्यमिति । कुतस्ते संशय: ? समस्तेषूत्क्षेपणादिषु कर्मप्रत्ययवद् गमनप्रत्ययाविशेषात् कर्मत्वपर्याय इति गम्यते । यतस्तूत्क्षपणादिवद् विशेषसञ्ज्ञयाभिहितं तस्मादपरं सामान्यं स्यादिति ? न । कर्मत्वपर्यायत्वात् । आत्मत्वपुरुषत्ववत् कर्मत्वपर्याय एव गमनत्वमिति । अथ विशेषसंज्ञया किमर्थं गमनग्रहणं कृतमिति ? न श्रमणाद्यविरोधार्थत्वात् । उत्क्षेपणादिशब्दैरनवरुद्धानां श्रमणपत नस्यन्दनादीनामवरोधार्थ गमनग्रहणं कृतमिति । अन्यथा हि यान्येव चत्वारि विशेषसंज्ञयोक्तानि तान्येव सामान्यविशेषसंज्ञाविषयाणि प्रसज्येरन्निति । अथवा अस्त्वपरं सामान्यं गमनत्वमनियत दिग्देश संयोगविभागकारणेषु भ्रमणादिष्वेव वर्तते । गमनशब्दस्तुत्क्षेपणादिषु भाक्तो द्रष्टवनः स्वाश्रयसंयोगविभागकर्तृत्वसामान्यादिति । भवत्क्षेपणादीनां जातिभेदाद् भेदो न निष्क्रमणादीनाम् । अथ गमत्वं किं कर्मत्वपर्याय: 'घट: कलश:' इति पर्यायवत्, आहोस्विदपरं सामान्यम्, For Private And Personal Use Only 5 15 20 25

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315