Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 246
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणवैधयंप्रकरणम् २३७ तद्दर्शनाज्जातं परमार्थदर्शनजं सुखं करोति । तत् कृत्वा निवर्त्तते । तदा निर्गतं धर्माधर्मसमाख्यातं बीजं यस्यासौ तथोक्तस्तस्यात्मनः शरीरादिनिवृत्तिः । बीजाभावादेव पुनः शरीराद्यनुत्पत्तौ सत्यां* दग्धेन्धनानलवदुपशमो भोक्षः इति । यथा दग्धेन्धनस्यानलस्योपशमो ज्वालादिरहितस्यावस्थानम् तद्वदत्यन्तं विशेषगुणविमुक्तस्यात्मनोऽवस्थानं मोक्ष इति निर्णीतमादिवाक्ये ।। शब्दोऽम्बरगुणः, श्रोत्रग्राह्यः, क्षणिकः, कार्यकारणोभयविरोधी, संयोगविभागशब्दजः, प्रदेशवृत्तिः, समानासमानजातीयकारणः । द्विविधो वर्णलक्षणो ध्वनिलक्षणश्च । तत्र अकारादिलक्षणः, शङ्खादिनिमित्तो ध्वनिलक्षणश्च । तत्र वर्णलक्षणस्योत्पत्तिः, आत्ममनसोः संयोगात् स्मृत्यपक्षाद् वर्णोच्चारणेच्छा, तदनन्तरं प्रयत्नः, तमपेक्षमाणा- 10 दात्मवायुसंयोगाद् वायौ कर्म जायते, स चोय गच्छन् कण्ठादीनभिहन्ति, ततः स्थानवायुसंयोगापेक्षात् स्थानाकाशसंयोगाद् वर्णात्पत्तिः। अवर्णलक्षणोऽपि भेरोदण्डसंयोगापेक्षाद् भेयांकाशसयोगानुत्पाद्यते। वेणपर्वविभागाद् वेण्वाकाश विभागाच्च शब्दाच्च संयोगविभागनिष्पन्नान वीचीसन्तानवच्छन्द सन्तान इत्येवं सन्तानेन श्रोत्रप्रदेशमागतस्य । ग्रहणम् (नास्ति ?), परिशेषात् सन्तानसिद्धिरिति । शब्दस्य लक्षणपरीक्षार्थमाह * शब्दोऽम्बरगुणः * इत्यादि । अम्बरगुणत्वाच्छब्द इत्युक्ते संख्यादिभिर्व्यभिचारस्तदर्थं श्रोत्रग्राह्य इति । शब्दः, इतरस्माद् भिद्यते, अम्बरगुणत्वे सति श्रोत्रग्राह्यत्वादिति । क्षणिक इति परीक्षार्थम् । पूर्वपदापेक्षं वा लक्षणम् । ननु चासिद्धं शब्दे क्षणिकत्वम्, प्रत्यभिज्ञानादेपलम्भात् । यमहमश्रौषं गोशब्दम्, तमेतहि शृणोमि इति श्रोतुर्विज्ञानमुत्पद्यमानमुपलब्धम् । न चेदमप्रमाणम्, अन्यताग्राहकप्रमाणानुपलब्धेः । तथा अर्थापत्त्या च शब्दस्य नित्यत्वं विज्ञायते । अनित्यत्वे हि सङ्केतकालानुभूतशब्दविलयोत्तरकालं शब्दान्तरोपलम्भादसङ्केतिता तदर्थप्रतिपत्तिर्न स्यात् । सा चोपलभ्यत 25 इति तदन्यथानुपपत्त्या शब्दस्य नित्यत्वं ज्ञायते । 20 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315