Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 254
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कमसाधर्म्यप्रकरणम् Acharya Shri Kailassagarsuri Gyanmandir तस्माद्यत्र विभागयोर्जनितत्वात् न द्वितीयस्य सद्भावे प्रमाणमस्ति । तदुत्तरसंयोगाच्च प्राक्तनकर्मविनाशः कर्मान्तरोत्पत्तिश्च क्वचिदिष्यत एव । कर्मद्वयप्रतिभासस्तत्र आशुभावित्वेनैवेति द्रष्टव्यम् । अथैकद्रव्यवत्त्वं रूपादेरपीति क्षणिकग्रहणम् ; तथापि बुद्धयादिभिर्व्यभिचारपरिहारार्थं मूर्तद्रव्यवृत्तित्वपदम् । २४५ अथ क्षणिकत्वे सति मूर्तद्रव्येष्वेव वर्त्तमानत्वात् कर्मेत्युक्ते व्यभिचाराभावः ? सत्यम्, तथापि पदान्तरं साधर्म्यमात्रप्रतिपादनार्थम्, परीक्षार्थञ्चेति । गुरुत्व[द्रवत्व] प्रयत्नसंयोगेभ्यो जायत इति गुरुत्व[ द्रवत्व] प्रयत्नसंयोगजम् तस्य भावस्तत्त्वमिति । उदाहरणञ्चैतत् अन्यस्मादपि कारणात् तदुत्पत्तेः । व्यस्तञ्च गुरुत्वादिकं कायन्तिरसम्पादकमपि न समुदितं कर्मव्यतिरेकेणान्यस्य इत्यसाधारणमेव । नचैवं सकलकर्मभेदव्यापकमिति वैधर्म्यमात्रमेव । यद् वा गुरुत्वाद्यन्यतमकारणजन्यत्वं विवक्षितम् । तथा स्वकार्यसंयोगविरोधित्वमिति । संयोगमात्रेण विनाशादर्शनादिति स्वकार्यग्रहणम् । कर्मकार्यत्वञ्च विभाग वेगयोरपीति [ तत्र व्यभिचारवारणाय ] संयोगग्रहणम् । अतः स्वकार्यसंयोगविरोधित्वमसाधारणमपि क्वचिदाश्रयविनाशेनापि विनाशान्न पक्षव्यापकमिति वैधर्म्यमात्रमेव । तथा विभागे संयोगेऽपि च कर्त्तव्ये निरपेक्षकारणत्वं कर्मणः स्वरूपम् । For Private And Personal Use Only , 5 10 ननु विभागेऽनपेक्ष कारणत्वमिष्टम्, संयोगे तु पश्चाद्भाविनं प्राक्तनसंयोगविनाशमपेक्षत इत्यनपेक्षत्वमसिद्धम् ? वस्तुभूतकारणापेक्षया 20 तदुपपत्तेः । अभावव्यतिरेकेण च वस्तुभूतं कारणं नापेक्षत इत्यनपेक्षमित्युक्तम् । न चान्यस्यैतत् सम्भवतीत्यसाधारणम् । असमवायिकारणत्वमिति असाधारणमितरस्माद् व्यावृत्तम् । गुणानां हि द्वैविध्यम् असमवायित्वं निमित्तत्वञ्च । उत्क्षेपणादीनां चासमवायिकारणत्वमेव न द्वैविध्यमस्तीति विपक्षादत्यन्तं व्यावृत्तिरेव द्वैविध्य - 25 प्रतिषेधस्य विवक्षितत्वात् । तथा स्वपराश्रयसमवेतकार्यारम्भकत्वम् । यस्मिन्नाश्रये समवेतं कर्म, तत्र आश्रयान्तरे च समवेतं विभागं संयोगं 15

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315