Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 248
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणवैधयंप्रकरणम् २३९ लब्धेः । यथा बालावस्थायामुपलब्धे देवदत्ते अन्यत्वेऽपि वृद्धावस्थायामुपलम्भात् प्रत्यभिज्ञानम् । न चात्रावस्थाभेदमात्रमेव शरीरस्येति वाच्यम्, अवयवरचनापरिमाणरूपादिव्यतिरेकेण तदनुपलम्भात् । बालावस्थायां हि शिथिलावयवरचना कुमारावस्थायां चान्यथाभूतेति तद्भेदात् शरीरस्य भेदोऽवश्यं भावी, असमवायिकरणविनाशेन कार्यद्रव्यस्य विनाशोपलब्धः, 5 परिमाणभेदोपलब्धेश्च । पूर्वपरिमाणनिवृत्तावेवोत्तरपरिमाणम्, परिमाणवति परिमाणारम्भप्रतिषेधात् । एतद् रुपादिष्वपि समानम् । परिमाणविनाशश्चाश्रयविनाशादेव इत्यन्यत्वमेव । बालादिशरीराणां परिमाणभेदस्य कुवलयादावन्यत्वेनैव व्याप्तत्वात् । अथ परस्परं व्यावृत्तो बालाद्यवस्थाशब्दाभिधेयो धर्मः, तस्य च व्यतिरेके वृद्धावस्थायामपि बालादीनामुपलम्भः स्यात्, तेना- 10 विरोधात्, विरोधे वा कथमन्यत्वमसिद्धम्; अव्यतिरेकेऽपि तेषामाविर्भावतिरोभावाभ्यां धर्मिणोऽपि तथाभावप्रसङ्गः । तस्माच्छरीरभेदेऽपि सादृश्यात् स एवायं देवदत्त इति ज्ञानवच्छब्देऽपि प्रत्यभिज्ञानं भविष्यतीति शब्दोपलम्भादनन्तरं श्रोत्रव्यापारेणैव तदभावप्रतीतेरेकत्वग्राहकं प्रत्यभिज्ञानमप्रमाणम् । कर्णशष्कुल्यभ्युपगमेऽपि क्वचिच्छब्दस्याभिव्यक्तौ तस्य व्यापकतया सर्वदेशावस्थितपुरुषाणामुपलम्भः स्यात्, निरावरणस्य व्यापकत्वाविशेषात् । तथैकदेशास्तस्याभिव्यज्यन्ते तेषामभेदे शब्दस्यैवाभिव्यक्तिरिति तदेव दुषणम् । भेदे तु तदभिव्यक्तौ कथं शब्दोऽर्थमभिदध्यात्। यदि च शब्दविशेषणश्च शब्दाभावः परिच्छिद्यते, विशेषणविशेष्यभावलक्षणेनैव 20 सम्बन्धेनेत्युक्तं पूर्वम् । अथ शब्दस्योपलम्भानन्तर मु?मनुपलब्धिय॑ञ्जकाभावाद् नासत्त्वादिति चेत्, न, सद्भावे प्रमाणाभावाद् आवरणादेरनुपलम्भाच्च । नहि ऐन्द्रियकस्यातीन्द्रियमावरणं प्रमाणेन क्वचिदुपलब्धम् । अभ्युपगमेऽपि क्वचिच्छब्दस्याभिव्यक्तौ तस्य व्यापकतया सर्वदेशावस्थितपुरुषाणामुपलम्भः स्यात्, 25 निरावरणस्य व्यापकत्वाविशेषात् । यदि च शब्दात्मकानियतार्थप्रतिपादकाश्चैकदेशा: ? संज्ञाभेदमात्रमेव । 15 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315