Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 233
________________ Shri Mahavir Jain Aradhana Kendra 5 २२४ www.kobatirth.org व्योमवत्यां * स्फोटादिकार्यानुमेयः । तथा च हिमकरकासम्बन्धादुपलभ्यते स्फोटादिलक्षणं कार्यं शरीरे वृक्षादौ च दाह इति । विलयनञ्चास्य दिव्यतेजः सम्बन्धात् । अवयवे क्रिया, ततो विभागस्तस्मात् संयोगनिवृत्तौ द्रव्यविनाशे सति परमाणवः कार्यमारभन्ते । तत्र च दिव्यतेजः संयोगस्य प्रतिबन्धकस्य निवृत्तेः परमाणुद्रवत्वं कार्ये द्रवत्वमारभते । न चेदं नैमित्तिकम्, सर्पिरादाविव पुनः संग्रहानुपलब्धेः । यथाहि नैमित्तिकद्रवत्वं सर्पिरादाविति द्रुतस्य संग्रह:, तथेहाऽपि स्यात् । न चैतदस्तीति । * नैमित्तिकञ्च पृथिवीतेजसोरग्निसंयोगजम् । कथमित्यव्युत्पन्नप्रश्नः । 10 तत्राह सर्पिरादीनां कारणेष्वित्यादिपदेन सूत्रोक्तानां संग्रहः । तथाहि सर्पिर्जतुमधूच्छिष्टानां पार्थिवानामग्निसंयोगाद् द्रवत्वमद्भिः सामान्यम् । त्रपुसीसलोहरजतसुवर्णानां तैजसानामग्निसंयोगाद्द्रवत्वमद्भिः सामान्यमिति (वै० सू० २१११५४-५५ ) । अतः सर्पिरादिकारणेषु च परमाणुष्वग्निसंयोगापेक्षाद् वेगापेक्षात् कर्मोत्पत्तौ सत्यन्ततो विभागा जायन्ते । तेभ्यो विभागेभ्यो 15 द्रव्यारम्भकसंयोगविनाश:, ततः कार्यद्रव्यनिवृत्तिस्तस्याञ्च सत्यामग्निसंयोगाद् औष्ण्यापेक्षात् स्वतन्त्रेषु परमाणुषु द्रवत्वमुत्पद्यते । परमाणवः समवायिकारणम्, अग्निसंयोगोऽसमवायिकारणमुष्णस्पर्शो निमित्तकारणमिति । ततोऽनन्तरमुत्पन्नद्रवत्वेषु भोगिनामदृष्टापेक्षादात्मानुसंयोगात् क कर्मोत्पद्यत इति । परमाणुः समवायिकारणम्, आत्माणुसंयोगोऽसमवायि20 कारणम्, भोगिनामदृष्टो निमित्तकारणमिति । ततो विभागेभ्यः प्राक्तनसंयोगविनाशे सति तेभ्यः कर्मभ्यः परमाण्वन्तरेण संयोगा जायन्ते । तेभ्यः संयोगेभ्यो द्वणुकाण्युत्पद्यन्ते । तदादिक्रमेण त्र्यणुकादिकार्यमुत्पद्यते । तस्मिंश्च द्व्यणुकादौ रूपाद्युत्पत्तिसमकालं कारणगुणपूर्वक्रमेण द्रवत्वमुत्पद्यत इति * पाकजोत्पत्तिन्यायोऽत्र द्रष्टव्यः । एतावांस्तुविशेषः, तत्रावश्यं रूपादि25 निवृत्तिर्न चैवं द्रवत्वस्येति । स्नेह वैधर्म्यं * Acharya Shri Kailassagarsuri Gyanmandir स्नेहोsपां विशेषगुणः । संग्रहमृजादिहेतुः । नित्यानित्यत्वनिष्पत्तयः । For Private And Personal Use Only अस्यापि गुरुत्वव

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315