Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 208
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणवैधयंप्रकरणम् १९९ इति । तत्र तत्र शास्त्रे तस्मिस्तस्मिन् सूत्रे ‘दृष्टञ्च दृष्टवत्' (वै० सू०) दृष्ट्वा संशयो भवति । दृष्टश्च मनसि क्रियावत्त्वं पुनर्दृष्टेन तुल्यं वर्तत इति दृष्टवद् अस्पर्शवत्त्वम् । अतो विरुद्धसाधनाभिसम्बद्धं मनो दृष्ट्वा संशेते किं मूर्तम् उत अमूर्त मन इति । 'यथा दृष्टम् अयथादृष्टञ्च' (दै० सू०) उभयथा दृष्टत्वात् संशय इत्यसाधारणस्य च संशयहेतुत्वमुक्तम् । यथा दृष्टं पक्षे, 5 पुनरयथा दृष्टं सपक्षे, विपक्षे च न दृष्टम्, अत उभयथा दृष्टत्वात् संशयः । यद् वा यथादृष्टं क्रियावत्त्वेन पुनरयथादृष्टम् अस्पर्शवत्त्वेन, अत उभयथा उभाभ्यां सह दृष्टत्वात् संशय इत्युक्ते परेणाह न युक्तमेतत्, संशयस्य विषयद्वैतदर्शनादुत्पत्तेः । अस्यैव विवरणम् * संशयोत्पत्तौ विषयद्वैतदर्शनमेव कारणम् * इति । विषयद्वैते दृश्यत इति विषयद्वैतदर्शनं सामा- 10 न्यमेव । विषयस्य वा द्वैतं द्वैविध्यं यस्य, तत् तथोक्तं सामान्यं तदर्शनमेव, विरुद्धविशेषानुवृत्तिहेतुत्वात् संशयकारणं न विरुद्धहेतुसन्निपातः, असाधारणधर्मो वा, विरुद्धविशेषः सहानुपलम्भेन तस्य तत्स्मारकत्वानुपपत्तेः । विरुद्धविशेषानुस्मृतिहेतुश्च धर्मः संशयकारणं न परस्परविरोधी समानबल इति । समानबलत्वे च * तयो :परस्पर विरोधात् * इतरस्येतरेण प्रतिबन्धात् 15 * निर्णयानुत्पादकत्वं स्यान्न (तु?) संशयहेतुत्वम् * तैलादिनाभ्यक्तस्य शालिबीजस्य स्वाङकुरानुत्पादकत्ववदिति अभ्युपगम्यैतदुक्तम् । परमार्थतो * न च तयोस्तुल्यबलत्वमस्ति * अन्यतरस्य अमूर्तं मन इति * अनुमेयोद्देशस्यागमविरोधित्वात् * इति । तथा चागमः 'तदभावादणु मनः' (वै. सू.) इति । मूर्तत्वञ्च अव्यापिपरिमाणसम्बन्धित्वमेव ।। अथेदं वचनमप्रमाणम् ? तहि मनः सद्भावासिद्धेराश्रयासिद्धमनुमानमिति यथोक्तलक्षणानुपपत्तिः । न च मूर्तत्वानभ्युपगमे युगपज्ज्ञानानुत्पत्यापि मनःसद्भावसिद्धिः, अमूर्तस्य सकलेन्द्रियाधिष्ठायकत्वेन युगपज्ज्ञानोत्पत्तिप्रसङ्गात् । अतः प्रतिज्ञावचनस्यागमेन विरोधाद् अमूर्तानुमानं न यथोक्तलक्षणमिति । अयन्तु विरुद्धभेद: प्रतिज्ञावसरेऽभिहित एव । 25 विरुद्धाद् भिद्यते इति विरुद्धभेद: कालात्ययापदिष्टः, दुष्टपक्षोपन्यासानन्तरमुपन्यासात् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315