Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 202
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वैधकरणम् १९३ इति ब्रुवतः । वैशेषिकशास्त्रे हि असदुत्पद्यत इति प्रसिद्धम् । न शब्दोऽर्थप्रत्यायक इति स्ववचनविरोधी । यदि हि शब्दोऽर्थप्रत्यायको न भवति, कथमस्यार्थस्य ज्ञापनार्थं शब्दोच्चारणं न विरुध्येत इति । अथ प्रमाणत्रित्वे सति कथं विरोधबहुत्वम् ? लोकप्रसिद्ध्यपेक्षया । यद्यपि आगमविरुद्धस्य प्रत्यक्षविरुद्धस्य चामी भेदास्तथापि स्ववचनविरुद्धः स्वशास्त्रविरुद्धश्चेत्यादिव्यपदेशो जनानाम् अतस्तथैवाभिधानम् । अनुमानस्य तु अनुमानान्तरेण विरोधासम्भवेऽपि स्वकीयानुमानस्य बलवत्वादयं व्यपदेशो ऽनुमानेन प्रतिज्ञा बाध्यत इति । हेतुवैषम्यंम् Acharya Shri Kailassagarsuri Gyanmandir 10 लिङ्गवचनमपदेशः । यदनुमेयेन सहचरितं तत्समानजातीये च सर्वत्र सामान्येन प्रसिद्धं, तद्विपरीते च सर्वस्मिन्नसदेव तल्लिङ्गमुक्तम् । तस्य वचनमपदेशः । यथा क्रियावत्त्वाद् गुणवत्त्वाच्च तथा च तदनुमेsस्ति तत्समानजातीये च सर्वस्मिन् गुणवत्त्वम् असर्वस्मिन् क्रियावत्त्वम् । उभयमप्येतद् अद्रव्ये नास्त्येव, तस्मात् तस्य वचनमपदेश इति सिद्धम् । } For Private And Personal Use Only * 5 營 प्रतिज्ञानन्तरं हेतुलक्षणमाह * लिङ्गवचनमवदेशः * इति । अर्थलक्षणत्वाद् वचसामिति लिङ्गलक्षणानुवादेन अपदेशस्य लक्षणाभिधानमिति । • यदनुमेयेन सहचरितं तत्समानजातीये सर्वत्र च सामान्येन प्रसिद्धम् * यथाभूतो धर्मः पक्षे तत्समानः सपक्षे प्रसिद्धो न पुनविशेष:, अन्यधर्माणामन्यत्रावृत्तेः । सर्वत्र चेति व्यापकाव्यापकभेदं दर्शयति । : तद्विपरीते 20 च विपक्षे सर्वत्र नास्त्येवेति विपक्षादत्यन्तव्यावृत्ति दर्शयति । प्रकरणसमकालात्ययापदिष्टयोश्च व्युदासः पूर्ववदित्येतत् * लिङ्गमुक्तम् * इति लक्षणानुवादः । तस्य वाचकं वचनं तृतीयान्तं पश्चम्यन्तं वा अपदेशः | तथा च अयमितरस्मात् भिद्यते यथोक्तलिङ्गवचनत्वात्, यस्तु न भिद्यते न चासावेवम्, यथा प्रतिज्ञादिरिति । तस्य व्यापकाव्यापकस्वरूपोपदर्शनार्थम् उदाहरणद्वयम् यथा क्रिया २५ 15 25

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315