________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
दशम उद्देशकः
१५१० (A)]
चिक्खल त्ति यत्र प्रायो भूयान् कर्दमो न विद्यते १, न च भूयांसः सम्मूर्छिमाः प्राणाः२, यत्र च स्थण्डिलमनापाताऽसंलोकं महास्थण्डिलं च ईप्सितायां दिशि ३, [सुलभा च वसतिः] ४, तथा यत्र प्रचुरं गोरसं ५, भूयान् जनः सोऽप्यतीव भद्रकः ६, तथा यत्र वैद्या भद्रकाः ७, सुलभानि च औषधानि ८, कुटुम्बिनां भूयांसो धान्यनिचयाः ९, अधिपति म राजा स भद्रक: १०, पाषण्डैरनपमानं ११, भैक्षं सुलभं तृतीयस्यां पौरुष्यां पर्याप्तं लभ्यते, अन्यास्वपि च पौरुषीषु यदि कार्यं ततो लभ्यते भिक्षा १२, स्वाध्यायोऽपि च वसतावन्यत्र च शुध्यति १३। ईदृशं क्षेत्रं प्रत्युपेक्ष्यमवश्यमनुज्ञापयितव्यम् ॥ ३८७८ ॥ तदेवाह
खेत्तपडिलेहणविही, खेत्तगुणा चेव वण्णिया एए। पेहेयव्वं खेत्तं, वासाजोग्गं तु कं कालं ? ॥ ३८७९॥
क्षेत्रप्रत्युपेक्षणाविधिः क्षेत्रगुणाश्च एते अनन्तरोदिता वर्णिताः। तत्र कस्मिन् काले वर्षायोग्यं क्षेत्रं प्रत्युपेक्षितव्यमनुज्ञापयितव्यम्? ॥ ३८७९ ॥
गाथा ३८७९-३८८५ क्षेत्राभवनादिः
|
१५१० (A)
For Private And Personal