Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 505
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १७२३ (B) न खल्वन्धेनाऽन्धः समाकृष्यमाणः सम्यक् पन्थानं प्रतिपद्यते इत्यभिप्रायः । एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तम्। क्षायिकमप्यङ्गीकृत्य विशिष्ट फलसाधकत्वं तस्यैव प्रतिपत्तव्यम्, यस्मादर्हतोऽपि भवाम्भोधितटस्थस्य दीक्षाप्रतिपन्नस्य तपश्चरणवतोऽपि न | तावदपवर्गप्राप्तिरुपजायते-यावज्जीवाऽजीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्नमिति । तस्माद् ज्ञानमेव प्रधानमैहिकाऽऽमुष्मिकफलप्राप्तिकारणमिति स्थितम् । इति जो उवएसो सो नयो नाम इति एवमुक्तेन प्रकारेण यः उपदेशः ज्ञानप्राधान्यख्यापनपरः सः नयो नाम ज्ञाननय इत्यर्थः। उक्तो ज्ञाननयः। सम्प्रति क्रियानयावसरः, तद्दर्शनं चेदम्- क्रियैव ऐहिकाऽऽमुष्मिकफलप्राप्तिकारणं प्रधानम्, युक्तियुक्तत्वात् । तथा चायमप्युक्तस्वरूपामेव स्वपक्षसिद्धये ||६९-४६७२ गाथामाह ज्ञाननय चारित्रनयौ नायम्मि गिण्हियव्वे इत्यादि । अस्या क्रियानयदर्शनानुसारेण व्याख्या- ज्ञाते ग्रहीतव्ये | १७२३ (B) M अग्रहीतव्ये चार्थे ऐहिकाऽऽमुष्मिकफलप्राप्त्यर्थिना यतितव्यमेव, न यस्मात् प्रवृत्त्यादिलक्षणा | प्रयत्नव्यतिरेकेण ज्ञानवतोऽपि अभिलषितार्थावाप्तिरुपजायते । तथा चोक्तमन्यैरपि गाथा For Private And Personal

Loading...

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512