Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 506
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १७२४ (A) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्री - भक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥ तथाऽऽमुष्मिकफलार्थिनाऽपि क्रियैव कर्त्तव्या । तथा च भगवद्वचनमप्येवमेव व्यवस्थितम् । यत उक्तम् चेइय कुल गण संघे, आयरियाणं च पवयण सुए य । सव्वेसु वि तेण कयं तव - संजममुज्जमंतेण ॥ इतश्चैतदङ्गीकर्त्तव्यम्, यस्मात् तीर्थकर गणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तम्। तथा चाऽऽगमः - सुबहु पि सुयमहीयं, किं काही चरणविप्पहीणस्स । अंधस्स जह पलित्ता, दीवसयसहस्सकोडी वि ॥ दृशिक्रियाविकलत्वात् तस्येत्यभिप्रायः । एवं तावत् क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तम्, चारित्रं क्रियेत्यनर्थान्तरत्वात् । क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव, यस्माद भगवतः समुत्पन्नकेवलज्ञानस्यापि न तावद् मुक्त्यवाप्तिः सम्भवति यावदखिलकर्मेन्धनानलभूता For Private And Personal ܀܀܀ गाथा ४६७३- ४६७५ उपसंहारः १७२४ (A)

Loading...

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512