Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 507
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १७२४ (B) हुस्वपञ्चाक्षरोगिरणकालमात्रा सर्वसंवररूपा चारित्रक्रिया नावाप्यते ततः क्रियैव प्रधानमैहिकाऽऽमुष्मिकफलप्राप्तिकारणमिति । इति जो उवदेसो सो नयो नाम इति एवमुक्तेन प्रकारेण य: 'उपदेशः' क्रियाप्राधान्यख्यापनपरः सः 'नयो नाम' क्रियानय इत्यर्थः ॥ ४६७२ ॥ उक्तः क्रियानयः । इत्थं ज्ञाननय-क्रियानयस्वरूपं श्रुत्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः सन्नाह-किमत्र तत्त्वम् ? पक्षद्वयेऽपि युक्तिसम्भवात् । आचार्य आह सव्वेसि पि नयाणं, बहुविहवत्तव्वयं निसामित्ता । तं सव्वनयविसुद्धं, जं चरण-गुणट्ठितो साहू॥ ४६७३॥ सर्वेषामपि [नयानां] मूलनयानाम्, अपिशब्दात् तद्भेदानामपि नयानां द्रव्यास्तिकायादीनां | बहुविधवक्तव्यतां सामान्यमेव विशेष एव उभयमेव परस्परनिरपेक्षमित्यादिरूपाम्, अथवा नामादिनयानां मध्ये को नयः कं साधुमिच्छति ? इत्यादिरूपां निशम्य श्रुत्वा तत् सर्वनयविशुद्धं सर्वनयसम्मतं वचनं यत् चरण-गुणस्थित: चारित्र-ज्ञानस्थितः साधुः, यस्मात् | सर्वे नया भावतो भावनिक्षेपमिच्छन्ति॥ ४६७३॥ गाथा ४४६७३-४६७५ | उपसंहारः १७२४ (B) For Private And Personal

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512