Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 465
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir व्यवहार सूत्रम् दशम उद्देशकः १७०३ (B) जो जाणइ य जच्चंधो, वन्ने रूवे विअप्पसो । नेत्ते वाऽऽवरिते तस्स, विन्नाणं तं तु चिट्ठइ ॥ ४५९९॥ पासंता वि न याणंति, विसेसं वनमादिणं । बाला अस्सन्निणो चेव, विन्नाणावरियम्मि उ ॥ ४६००॥ यो नाम जात्यन्धः स्पष्टचतुष्टयो वर्णान् रूपाणि च विकल्पशः अनेकप्रकारं जानाति तस्य नेत्रेऽप्यावृते तद् विज्ञानं तिष्ठति, अन्धीकृतोऽपि वर्णविशेषान् रूपविशेषांश्च तथैव । स्पर्शतो जानातीत्यर्थः। तथा बाला असंज्ञिनश्च पश्यन्तोऽपि विज्ञाने आवृते वर्णादीनां विशेषं न जानन्ति। तदेवमिन्द्रियोपघातेऽपि न विज्ञानोपघातः, विज्ञानोपघातेऽपि नेन्द्रियोपघातः- इति विज्ञानेन्द्रिययोर्भेदः, तद्भेदाच्च तदावरणयोरपि भेद इति ज्ञानावरणं दशधा ॥ ४५९९ ॥ ४६०० ॥ साम्प्रतमेकैकेन्द्रियहान्या यद् एकेन्द्रियत्वं पूर्वमुक्तं तद् भावयति . गाथा ४५९३-४६०० आवरणभेदाः १७०३ (B) १. स्पृष्टचक्षुर्वर्णान् -मु. । इदं तु ध्येयं-चक्षुरिन्द्रियं विहाय शेषेन्द्रियचतुष्टयं स्पष्टं यस्य स स्पष्टचतुष्टयः। | यदि वा स्पृष्टचक्षुः स्पर्शचक्षुर्वा तथा च स्पृष्टचक्षुर्वर्णान् इत्यादि चिन्तनीयम्॥ For Private And Personal

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512