________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
व्यवहार
सूत्रम् दशम उद्देशकः
१७०३ (B)
जो जाणइ य जच्चंधो, वन्ने रूवे विअप्पसो । नेत्ते वाऽऽवरिते तस्स, विन्नाणं तं तु चिट्ठइ ॥ ४५९९॥ पासंता वि न याणंति, विसेसं वनमादिणं । बाला अस्सन्निणो चेव, विन्नाणावरियम्मि उ ॥ ४६००॥
यो नाम जात्यन्धः स्पष्टचतुष्टयो वर्णान् रूपाणि च विकल्पशः अनेकप्रकारं जानाति तस्य नेत्रेऽप्यावृते तद् विज्ञानं तिष्ठति, अन्धीकृतोऽपि वर्णविशेषान् रूपविशेषांश्च तथैव । स्पर्शतो जानातीत्यर्थः। तथा बाला असंज्ञिनश्च पश्यन्तोऽपि विज्ञाने आवृते वर्णादीनां विशेषं न जानन्ति। तदेवमिन्द्रियोपघातेऽपि न विज्ञानोपघातः, विज्ञानोपघातेऽपि नेन्द्रियोपघातः- इति विज्ञानेन्द्रिययोर्भेदः, तद्भेदाच्च तदावरणयोरपि भेद इति ज्ञानावरणं दशधा ॥ ४५९९ ॥ ४६०० ॥ साम्प्रतमेकैकेन्द्रियहान्या यद् एकेन्द्रियत्वं पूर्वमुक्तं तद् भावयति
.
गाथा ४५९३-४६०० आवरणभेदाः
१७०३ (B)
१. स्पृष्टचक्षुर्वर्णान् -मु. । इदं तु ध्येयं-चक्षुरिन्द्रियं विहाय शेषेन्द्रियचतुष्टयं स्पष्टं यस्य स स्पष्टचतुष्टयः। | यदि वा स्पृष्टचक्षुः स्पर्शचक्षुर्वा तथा च स्पृष्टचक्षुर्वर्णान् इत्यादि चिन्तनीयम्॥
For Private And Personal