________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम
उद्देशकः १६११ (B)
यदि अशिवायुपद्रवं ग्रामाद्युत्थानं च ज्ञात्वा भक्तं प्रत्याख्यापयति तदा तस्मिन्ननिर्यापिते एवाशिवाद्युत्थाने जाते यदि संयतास्तत्प्रतिबन्धतो न निर्गच्छन्ति, गच्छन्तो वा यदि तं कृतभक्तप्रत्याख्यानं तस्योपकरणं च वहन्ति तदा ते संयता अशिवादिभिः कारणैस्तमुपकरणं च वहन्तस्त्यक्ताः। अथोपधिं न वहन्ति त्यक्त्वा वा सर्वथा पलायन्ते तदा स भक्तप्रत्याख्याता परित्यक्तः। स च त्यक्तः सन् उड्डाहं कुर्यात्-'मां त्यक्त्वा ते गता' इति, तदा प्रवचनस्य महती हीलनेति प्रवचनं त्यक्तम्। तस्मादशिवायुत्थाने अपारगे च तस्मिन् ज्ञाते स भक्तं न प्रत्याख्यापयितव्यः ॥ ४२५९ ॥ गतमाभोगनद्वारम् ८ । इदानी' मन्यद्वारमाह'
गाथा
४२५६-४२६० एगो संथारगतो, बिइतो संलेहे तइय पडिसेहो ।
आभोगद्वारम् अपहुपंतऽसमाही, तस्स व तेसिं व असतीए ॥ ४२६०॥
४१६११ (B) [जी.भा.३८७,नि.भा.३८४८] |
For Private And Personal