________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री । व्यवहार
सूत्रम् दशम उद्देशकः
१६९६ (A)
प्रथमः प्रव्राजनाचार्यः १। द्वितीयः द्वितीयभङ्गेन सूचित उपस्थापनाचार्यः २। तृतीयभङ्गसूचितः उभयः प्रव्राजनोपस्थापनाचार्यः ३। अनुभयश्चतुर्थः ४ तत्र प्रथमे प्रथमस्याऽऽत्मार्थं परार्थं वा केवला प्रव्राजना । किमुक्तं भवति? आत्मनिमित्तं परनिमित्तं वा यः केवलं प्रव्राजयति स प्रथमः प्रव्राजनाचार्यः १ एवमेव अनेनैव प्रकारेण द्वितीयः, सः केवलमात्रमुपस्थापयति, यः प्रवाजितस्य सत उपस्थापनामात्रं करोति स द्वितीय इत्यर्थः २ तृतीयः पुनरपि[उभयमपि] प्रव्राजनमुपस्थापनं चाऽऽत्मार्थं परार्थं वा करोति ३ ॥ ४५७१ ॥ ४५७२ ॥ यः पुनः नोभयकारी स चतुर्थः ४। अथ स कस्माद् भवत्याचार्यः? उभयविकलत्वात्। सूरिराह- भण्यते, स धर्माचार्यो धर्मदेशकत्वात् । स पुनर्गृही वा श्रमणो वा वेदितव्यः। एवं च त्रय आचार्याः ॥ ४५७३ ॥
तथा चाहधम्मायरि१ पव्वावण२, तह य उवट्ठावणागुरू तइओ ३ ।
कोई तिहि संपन्नो, दोहि व एक्वेक्कएणं वा ॥ ४५७४॥ १. केवलं -मु.॥
★
सूत्र १३-१४
गाथा ४५७४ -
४५७७ | उद्देशनाचार्यवाचनाचार्यों
४|१६९६ (A)
For Private And Personal