SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री । व्यवहार सूत्रम् दशम उद्देशकः १६९६ (A) प्रथमः प्रव्राजनाचार्यः १। द्वितीयः द्वितीयभङ्गेन सूचित उपस्थापनाचार्यः २। तृतीयभङ्गसूचितः उभयः प्रव्राजनोपस्थापनाचार्यः ३। अनुभयश्चतुर्थः ४ तत्र प्रथमे प्रथमस्याऽऽत्मार्थं परार्थं वा केवला प्रव्राजना । किमुक्तं भवति? आत्मनिमित्तं परनिमित्तं वा यः केवलं प्रव्राजयति स प्रथमः प्रव्राजनाचार्यः १ एवमेव अनेनैव प्रकारेण द्वितीयः, सः केवलमात्रमुपस्थापयति, यः प्रवाजितस्य सत उपस्थापनामात्रं करोति स द्वितीय इत्यर्थः २ तृतीयः पुनरपि[उभयमपि] प्रव्राजनमुपस्थापनं चाऽऽत्मार्थं परार्थं वा करोति ३ ॥ ४५७१ ॥ ४५७२ ॥ यः पुनः नोभयकारी स चतुर्थः ४। अथ स कस्माद् भवत्याचार्यः? उभयविकलत्वात्। सूरिराह- भण्यते, स धर्माचार्यो धर्मदेशकत्वात् । स पुनर्गृही वा श्रमणो वा वेदितव्यः। एवं च त्रय आचार्याः ॥ ४५७३ ॥ तथा चाहधम्मायरि१ पव्वावण२, तह य उवट्ठावणागुरू तइओ ३ । कोई तिहि संपन्नो, दोहि व एक्वेक्कएणं वा ॥ ४५७४॥ १. केवलं -मु.॥ ★ सूत्र १३-१४ गाथा ४५७४ - ४५७७ | उद्देशनाचार्यवाचनाचार्यों ४|१६९६ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy