________________
Shri Mahavir Jain Arena Kendra
श्री व्यवहार
सूत्रम्
दशम
उद्देशकः
१६९६ (B)
www.kobatirth.org
Acharya Shashsagarsuri Gyanmandir
प्रथमो धर्माचार्यो यस्तत्प्रथमतया धर्मं ग्राहयति १ । द्वितीयः प्रव्राजनाचार्यो यः प्रव्राजयति २ । तृतीयो गुरुरुपस्थापनाचार्यो यो महाव्रतेषूपस्थापयति ३ । तत्र कश्चित् त्रिभिरपि सम्पन्नो भवति, तथाहि — कदाचित् स एव धर्मं ग्राहयति, स एव प्रव्राजयति, स एवोपस्थापयति । कश्चिद् द्वाभ्याम्, तद्यथा - धर्मग्राहकत्वेन प्रव्राजनेन च; अथवा धर्मग्राहकत्वेनोपस्थापनेन, अथवा प्रव्राजनेनोपस्थापनेन । कश्चिदेकैकेन गुणेन । तद्यथाकश्चिद् धर्ममेव ग्राहयति, कश्चित् प्रव्राजयत्येव, कश्चिदुपस्थापयत्येव ॥ ४५९८ ॥
सूत्रम् - चत्तारि आयरिया पन्नत्ता । तं जहा - उद्देसणायरियए नामं एगे नो वाणायरि १, वायणायरिए नामं एगे नो उद्देसण्णायरिए २, एगे उद्देसणायरिए वि वाणायरिए वि ३, एगे नो उद्देसणायरिए नो वायणायरिए ४ ॥ १३ ॥
अमीषां स्वरूपमाह
एगो उद्दिस सुयं, एगो वाएइ तेण उद्दिट्ठ २ ।
उद्दिसई वाइ यर, धम्मायरिओ चउत्थो य ४ ॥ ४५७५॥
Private And Persons
सूत्र १३-१४
गाथा ४५७४ - ४५७७ उद्देशनाचार्यवाचनाचाय
१६९६ (B)