________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१६०५ (A)
www.kobatirth.org
कुजा कुलादिपत्थारं, सो वा रुट्ठो उ गच्छे मिच्छत्तं । तप्पच्चयं च दीहं, भमेज्ज संसारकंतारं ॥ ४२३८ ॥ [ जी. भा. ३६२-३]
Acharya Shri Kailashsagarsuri Gyanmandir
अथवा शर्वर्यां पानीयं याचमानस्य रात्रौ पानीयं नास्ति इति मोकं प्रश्रवणं सोऽगीतार्थो दद्यात् स च दण्डिकादिः दण्डिकादीनां सम्बन्धी निष्क्रान्तः स्यात्, ततः स धातुवैषम्येण रुष्टः सन् अवधावेत्,अवधाव्य च नृपादीनां कथयेत् तत प्रवचनस्य महानुड्डाह:, यदि वा स राजादिस्तत्पक्षपतितः ततः सोऽपि वा स्वयं रुष्टः कुलादिप्रस्तारं कुलस्य गणस्य वा विनाशं कुर्यात्। यद्यपि च एवमादयो दोषा न भवन्ति तथा[प] प्रथम-द्वितीयपरीषहाभ्यां परितप्यमानोऽसमाधिना मृतो दुष्करमपि कृत्वाऽन्तक्रियां कल्पविमानोपपत्तिं वा न प्राप्नुयात्, किन्तु वानमन्तरादिषूपपद्यते । यदि वा कषायपीडितो दृष्टिविषः सर्पो जायेत । गच्छे मिच्छत्तं इति इहभवे परभवे वा मिथ्यात्वं गच्छेत् तत्प्रत्ययं च दीर्घं संसारकान्तारं भ्रमेत् ॥
४२३७ ।। ४२३८ ॥
"
For Private And Personal
***
गाथा
४२३३-४२४० अगीतार्थपार्श्वे अनशननिषेधः
१६०५ (A)