Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh

View full book text
Previous | Next

Page 337
________________ संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ३११ रणीया यत्नेन, नात्र कार्या विचारणा ॥ १९॥ वार्ताऽन्याप्यस्ति चात्रैव, लेखवृद्धिः प्रजायते । वास्तवज्ञानशून्यं स्यात्काठिन्यं विदुषा भवेत् ॥ २० ॥ इति शंका भिया नैव, प्रत्येकविषयस्य हि । प्रमाण स्पष्टरूपेण, न निर्दिष्टमिह स्फुटम् ॥२१॥ जिज्ञासूनां विजिज्ञासा, दृढाय ह्यनुरूपतः। तदा तेषां विनिर्देशोऽवश्यं स्यात्प्रकटं पुनः ॥ २२ ॥ हेतुस्तृतीयो ज्ञातव्यो, विवेचनमवाप्स्यति । प्रस्तुतविषयस्यापि, *सम्प्रदायानुसारतः ॥ २३ ॥ लक्ष्ये विशेष संस्थाप्य, सूक्ष्ममात्रकदृष्टित. । प्रत्येकस्यात्र लेखस्याऽनुभवाच्छास्त्रतस्तथा ॥ २४ ॥ सर्वसिद्धान्ततः सार्वभौमस्य व्याप्तिरूपतः। अस्ति सम्भावना चास्य, ज्ञानं सम्यक्त्वपूर्वकम् ॥ २५ ॥ कस्यचिद्धतुतश्चित्ते, शङ्कोत्पत्तिर्भवेन हि। विचारानन्तरं तेषा, शङ्का स्यानिलिका ॥ २६ ॥ सर्वत्र मेऽस्ति विश्वासो, नैवं शंका कदापि हि । चतुर्थी च सुवार्तेयं, कस्याऽपि विषयस्य च ॥ २७ ॥ प्रतिपादयितुं शश्वत्कयापि भाषया भवेत् । चतुर्विधत्वं सामय्या, अपेक्षा जायते ध्रुवम् ॥ २८ ॥ विज्ञेया सा च सामग्री, निम्नलेखक्रमेण च । निर्णयस्तत्वसंघाना, प्रथमानुयोगरूपतः ॥ २९ ॥ विचारार्थं च वस्तूनां, साक्षाद्विषयवर्णनम् । कथनोपकथनाचेति, नान्यो हेतुर्मनागपि ॥ ३० ॥ शास्त्रे पूर्वानुयोग च, धर्मकथानुयोगकम् । कथ्यतेऽत्र विचारेण, तत्वज्ञानार्थिभिर्मुदा ॥ ३१॥ "धर्मार्थकाममोक्षाणामुपदेशसमन्वितम् । पूर्ववृत्तकथोपेतमितिहास प्रचक्षते" ॥ ३२ ॥ दृष्ट्यैतयेतिहासोऽपि, चेतसा कथ्यतेऽधुना । स्थानाझेऽपि कथा सेयं, चतुर्धाऽभिनिगद्यते ॥ ३३ ॥ मुख्य फलं कथायाश्च, तत्वनिर्णयमेव हि । य शब्दो यत्परश्चास्ते, तदर्थोऽपि स एव हि ॥ ३४ ॥ लक्ष्ये धृत्वा पदार्थ यं, शब्दस्य कस्य चैव हि । प्रयोगं यदि कुर्वीत, स शब्दश्वार्थवान् भवेत् ॥ ३५॥ सर्वेषा सम्मतं चेदं, सिद्धान्तं सस्फुट सदा । तदा सम्पद्यते भाव , सर्वत्रैवं विचारय ॥ ३६॥ वका बोधयितुं यं हि, वाञ्छयोचार्य्यवेडसकृत् । श्रोत्राऽपि शब्दः स एव, ज्ञायतेऽर्थसमन्वित. ॥ ३७ ॥ ततोऽन्यार्थप्रतीतेश्च, श्रोतुर्भवति विभ्रम. । भोजनावसरे यद्वत्सैन्धवेति पदात्ततः ॥ ३८॥ जन्यते लवणाऽऽबोधो न चान्योऽर्थोऽप्रतीयते । प्रस्थाने हयबोधश्च, तद्वलक्ष्ममधारय ॥ ३९ ॥ श्रोत्रैवं सुविचाऱ्यार्थो, नान्योऽर्थ. प्रतिपद्यते । अवोधार्थज्ञापकत्वे, सति शास्त्रप्रमाणकम् ॥ ४० ॥ प्रमाणं तु तदैतत्स्यात्प्रमाण * गुरुप्रदत्तज्ञानानुभवानुसारत इत्याशयः ॥ - -

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445