________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ३११ रणीया यत्नेन, नात्र कार्या विचारणा ॥ १९॥ वार्ताऽन्याप्यस्ति चात्रैव, लेखवृद्धिः प्रजायते । वास्तवज्ञानशून्यं स्यात्काठिन्यं विदुषा भवेत् ॥ २० ॥ इति शंका भिया नैव, प्रत्येकविषयस्य हि । प्रमाण स्पष्टरूपेण, न निर्दिष्टमिह स्फुटम् ॥२१॥ जिज्ञासूनां विजिज्ञासा, दृढाय ह्यनुरूपतः। तदा तेषां विनिर्देशोऽवश्यं स्यात्प्रकटं पुनः ॥ २२ ॥ हेतुस्तृतीयो ज्ञातव्यो, विवेचनमवाप्स्यति । प्रस्तुतविषयस्यापि, *सम्प्रदायानुसारतः ॥ २३ ॥ लक्ष्ये विशेष संस्थाप्य, सूक्ष्ममात्रकदृष्टित. । प्रत्येकस्यात्र लेखस्याऽनुभवाच्छास्त्रतस्तथा ॥ २४ ॥ सर्वसिद्धान्ततः सार्वभौमस्य व्याप्तिरूपतः। अस्ति सम्भावना चास्य, ज्ञानं सम्यक्त्वपूर्वकम् ॥ २५ ॥ कस्यचिद्धतुतश्चित्ते, शङ्कोत्पत्तिर्भवेन हि। विचारानन्तरं तेषा, शङ्का स्यानिलिका ॥ २६ ॥ सर्वत्र मेऽस्ति विश्वासो, नैवं शंका कदापि हि । चतुर्थी च सुवार्तेयं, कस्याऽपि विषयस्य च ॥ २७ ॥ प्रतिपादयितुं शश्वत्कयापि भाषया भवेत् । चतुर्विधत्वं सामय्या, अपेक्षा जायते ध्रुवम् ॥ २८ ॥ विज्ञेया सा च सामग्री, निम्नलेखक्रमेण च । निर्णयस्तत्वसंघाना, प्रथमानुयोगरूपतः ॥ २९ ॥ विचारार्थं च वस्तूनां, साक्षाद्विषयवर्णनम् । कथनोपकथनाचेति, नान्यो हेतुर्मनागपि ॥ ३० ॥ शास्त्रे पूर्वानुयोग च, धर्मकथानुयोगकम् । कथ्यतेऽत्र विचारेण, तत्वज्ञानार्थिभिर्मुदा ॥ ३१॥ "धर्मार्थकाममोक्षाणामुपदेशसमन्वितम् । पूर्ववृत्तकथोपेतमितिहास प्रचक्षते" ॥ ३२ ॥ दृष्ट्यैतयेतिहासोऽपि, चेतसा कथ्यतेऽधुना । स्थानाझेऽपि कथा सेयं, चतुर्धाऽभिनिगद्यते ॥ ३३ ॥ मुख्य फलं कथायाश्च, तत्वनिर्णयमेव हि । य शब्दो यत्परश्चास्ते, तदर्थोऽपि स एव हि ॥ ३४ ॥ लक्ष्ये धृत्वा पदार्थ यं, शब्दस्य कस्य चैव हि । प्रयोगं यदि कुर्वीत, स शब्दश्वार्थवान् भवेत् ॥ ३५॥ सर्वेषा सम्मतं चेदं, सिद्धान्तं सस्फुट सदा । तदा सम्पद्यते भाव , सर्वत्रैवं विचारय ॥ ३६॥ वका बोधयितुं यं हि, वाञ्छयोचार्य्यवेडसकृत् । श्रोत्राऽपि शब्दः स एव, ज्ञायतेऽर्थसमन्वित. ॥ ३७ ॥ ततोऽन्यार्थप्रतीतेश्च, श्रोतुर्भवति विभ्रम. । भोजनावसरे यद्वत्सैन्धवेति पदात्ततः ॥ ३८॥ जन्यते लवणाऽऽबोधो न चान्योऽर्थोऽप्रतीयते । प्रस्थाने हयबोधश्च, तद्वलक्ष्ममधारय ॥ ३९ ॥ श्रोत्रैवं सुविचाऱ्यार्थो, नान्योऽर्थ. प्रतिपद्यते । अवोधार्थज्ञापकत्वे, सति शास्त्रप्रमाणकम् ॥ ४० ॥ प्रमाणं तु तदैतत्स्यात्प्रमाण
* गुरुप्रदत्तज्ञानानुभवानुसारत इत्याशयः ॥
-
-