Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh

View full book text
Previous | Next

Page 394
________________ ३६८ चीरस्तुतिः।” ? ; ; भ्रमणं मिथ्या, संसाराब्धौ दयानिधे ! -॥ १२ ॥ क्रोधाग्निना-प्रदग्धोऽहं, दिवा, रात्रि शुभाशुमे । लोभोरगेन सन्दष्टो, देहि मे ज्ञानमेषजम् ॥ १३ ॥ अमिन मानग्रहग्रस्तश्चाज्ञानवर्शतो यहम् । जायते न गुरो ! ज्ञानं, कपटावृत्तचेतसः ॥ १४ ॥ जगत्यत्र मया-किञ्चिन्न कृतं-परहितं विभो.! शोकसागरमग्नस्य, सुखं मे स्यात्कथं किल ॥ १५ ॥ मादृशस्य नरस्यात्र, जातं जन्म मुधैव च । मन्यता पूर्तये शश्वजिनदेव ! भवस्य च ॥ १६ ॥ दर्शनं च त्वया दत्तं, खमुखस्यैव निर्मलम् । सुस्थिरो भवताचित्ते, मदीये जायते फलम् ॥ १७ ॥ आनन्दरससंमने,, न भवेत्सत्यवर्तनम् । ममास्ति- हृदयं वज्रसमं जानीहि सत्प्रिय ! ॥ १८॥ दुर्लभं च मया प्राप्त, ज्ञानरत्नं दयाकर ! भ्रमणे वहुदिना- । म जाते, न निवृत्तो भवो,मम ॥ १९॥ नष्टं मे-ज्ञानरनं च, सदाऽऽलस्यप्रभावतः। कस्यान्तिकमुपागम्य, रारटीमि मुहुर्मुहुः -॥ २० ॥ जगतो वञ्चनायैव, वैराग्यं विधृतं मया। हास्यमर्थे भवे जात, धर्मलेशं न लब्धवान् ॥ २१॥ मदीये रसनाग्रे,च, -विद्या वसति निर्मला । तथापि कलहो नित्यं, ज्ञानादिगुणनाशकः ॥ २२ ॥ तथापि निगृहीतश्च, जातोऽहं तेन मे रतिः। हास्ये प्रजल्पिते चैव, जायते च महान्प्रभो! ॥२३॥ भ्रमणोड्डीयतेऽप्यस्मिन् , खगवजीवो हि नित्यशः। अतोऽहं चाधमो लोके, सुखं त्यक्तं विचारय ॥ २४ ॥ सदाऽन्यान्दूषयित्वाऽहं, मन्ये खमुखनिर्मलम् । परदारान्विलोक्यैवं, जाते नेने च वैकले ॥ २५ ॥ परनिन्दारतत्वेन, चित्तं मे मलिनं गुरो! कस्माद्धितं भवेन्मेऽद्य, न जातं विमलं मन ॥ २६ ॥ गुप्ता वै डाकिनी चैका, तथैको रतिपोऽर्दकः । मत्प्रतिज्ञा तदायत्ता, . कदापि न च तिष्ठति ॥ २७ ॥ करोमि प्रकटं तुभ्यं, लजां खीया गुरोऽधुना। त्वया तु ज्ञायता सर्व, जगत्कर्म दयानिधे ! -॥२८॥ गुरोर्वचनमत्यन्तं, मया त्यक्तं च हे प्रभो! तथा सच्छास्त्रवचनं, मिथ्या बुद्ध्या हितं परम् ॥ २९ ॥ दुष्कर्मनिरतो नित्यं, दुस्समी च तथैव हि । मिथ्यात्वपङ्कसंलिप्तमधमं विद्धि मां गुरो! ॥ ३० ॥ मते श्रमो न मे नष्ट इति वेद धिया गुरो! त्यकं लब्ध्वा च त्वा देव ! निखिलं मवकष्टकम् ॥३१॥ अज्ञानजं च मे पापं, दृष्ट्वाऽज्ञानवशादहो! हाहाकारस्तदा जातोऽनेनेति मयि नो सुखम् ॥३२॥ मृगानीकुचद्वन्द्वे मे, लग्नं चक्षुरहर्निशम् । यथा ध्यातं तथा लब्धं, न ध्यातः श्रीजिनेश्वरः ॥ ३३ ॥ कान्ताननं मनोहारि, दृष्ट्वाऽक्षिसुखमेधते। इति त्वयि परे लग्नं, मनो जातं क्वचिन मे ॥ ३४ ॥ सच्छास्त्रस्य च सिद्धान्तविधि “沉照明田町四 丽动印孤Bm可印

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445