________________
३६८
चीरस्तुतिः।” ? ; ; भ्रमणं मिथ्या, संसाराब्धौ दयानिधे ! -॥ १२ ॥ क्रोधाग्निना-प्रदग्धोऽहं, दिवा, रात्रि शुभाशुमे । लोभोरगेन सन्दष्टो, देहि मे ज्ञानमेषजम् ॥ १३ ॥ अमिन मानग्रहग्रस्तश्चाज्ञानवर्शतो यहम् । जायते न गुरो ! ज्ञानं, कपटावृत्तचेतसः ॥ १४ ॥ जगत्यत्र मया-किञ्चिन्न कृतं-परहितं विभो.! शोकसागरमग्नस्य, सुखं मे स्यात्कथं किल ॥ १५ ॥ मादृशस्य नरस्यात्र, जातं जन्म मुधैव च । मन्यता पूर्तये शश्वजिनदेव ! भवस्य च ॥ १६ ॥ दर्शनं च त्वया दत्तं, खमुखस्यैव निर्मलम् । सुस्थिरो भवताचित्ते, मदीये जायते फलम् ॥ १७ ॥ आनन्दरससंमने,, न भवेत्सत्यवर्तनम् । ममास्ति- हृदयं वज्रसमं जानीहि सत्प्रिय ! ॥ १८॥ दुर्लभं च मया प्राप्त, ज्ञानरत्नं दयाकर ! भ्रमणे वहुदिना- । म जाते, न निवृत्तो भवो,मम ॥ १९॥ नष्टं मे-ज्ञानरनं च, सदाऽऽलस्यप्रभावतः। कस्यान्तिकमुपागम्य, रारटीमि मुहुर्मुहुः -॥ २० ॥ जगतो वञ्चनायैव, वैराग्यं विधृतं मया। हास्यमर्थे भवे जात, धर्मलेशं न लब्धवान् ॥ २१॥ मदीये रसनाग्रे,च, -विद्या वसति निर्मला । तथापि कलहो नित्यं, ज्ञानादिगुणनाशकः ॥ २२ ॥ तथापि निगृहीतश्च, जातोऽहं तेन मे रतिः। हास्ये प्रजल्पिते चैव, जायते च महान्प्रभो! ॥२३॥ भ्रमणोड्डीयतेऽप्यस्मिन् , खगवजीवो हि नित्यशः। अतोऽहं चाधमो लोके, सुखं त्यक्तं विचारय ॥ २४ ॥ सदाऽन्यान्दूषयित्वाऽहं, मन्ये खमुखनिर्मलम् । परदारान्विलोक्यैवं, जाते नेने च वैकले ॥ २५ ॥ परनिन्दारतत्वेन, चित्तं मे मलिनं गुरो! कस्माद्धितं भवेन्मेऽद्य, न जातं विमलं मन ॥ २६ ॥ गुप्ता वै डाकिनी चैका, तथैको रतिपोऽर्दकः । मत्प्रतिज्ञा तदायत्ता, . कदापि न च तिष्ठति ॥ २७ ॥ करोमि प्रकटं तुभ्यं, लजां खीया गुरोऽधुना। त्वया तु ज्ञायता सर्व, जगत्कर्म दयानिधे ! -॥२८॥ गुरोर्वचनमत्यन्तं, मया त्यक्तं च हे प्रभो! तथा सच्छास्त्रवचनं, मिथ्या बुद्ध्या हितं परम् ॥ २९ ॥ दुष्कर्मनिरतो नित्यं, दुस्समी च तथैव हि । मिथ्यात्वपङ्कसंलिप्तमधमं विद्धि मां गुरो! ॥ ३० ॥ मते श्रमो न मे नष्ट इति वेद धिया गुरो! त्यकं लब्ध्वा च त्वा देव ! निखिलं मवकष्टकम् ॥३१॥ अज्ञानजं च मे पापं, दृष्ट्वाऽज्ञानवशादहो! हाहाकारस्तदा जातोऽनेनेति मयि नो सुखम् ॥३२॥ मृगानीकुचद्वन्द्वे मे, लग्नं चक्षुरहर्निशम् । यथा ध्यातं तथा लब्धं, न ध्यातः श्रीजिनेश्वरः ॥ ३३ ॥ कान्ताननं मनोहारि, दृष्ट्वाऽक्षिसुखमेधते। इति त्वयि परे लग्नं, मनो जातं क्वचिन मे ॥ ३४ ॥ सच्छास्त्रस्य च सिद्धान्तविधि
“沉照明田町四 丽动印孤Bm可印