________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
३६९
श्रुत्वापि नो भयम् । संसारतारकं श्रुत्वा, ज्ञातं नो कारणं मया ॥ ३५ ॥ खानस्य मयि नो भासो, जातेश्च सुमनोरमः । गुणौघश्च मयि स्वामिन् ! विमला नो रतेः कला ॥ ३६ ॥ प्रभुत्वं न च मे जातं, खप्नेऽपि दृश्यतां प्रभो ! तथापि गर्वसंवेशात्करिष्येऽहं कथं हितम् ॥ ३७॥ प्रतिक्षणमायुहसते, मनस्तापो न यात्यसौ। दुःखदा च जराऽवस्था, सम्पना विषयादरात् ॥ ३८ ॥ निवर्तते न चाद्यापि, तस्मात्त्वच्छेरणागत । मेषजेच्छा मदीयाऽस्ति, धर्मवृत्तौ न मे मतिः ॥ ३९ ॥ मोहरूपग्रहाविष्टो, न शिष्ट. कोऽपि चाधुना । चैतन्येन समाविष्टो, लभते पद. मव्ययम् ॥ ४० ॥ इत्याद्यमन्यमानोऽहं, गुरो। रक्षां मयि कुरु । सन्मुखे त्वं मदीये हि, स्थितो दैन्यविमोचकः ॥ ४१ ॥ तथापि दीनवाक्यानि, शृणोमि तव सन्निधौ । धिक्कारं मे दयागार ! मुधा मे जननं भवे ॥ ४२ ॥ जिनसेवा कृता नैव, सविधिगृहसेवनम् । तथा कर्म कृतं धर्मपालनं न कचित्कृतम् ॥ ४३ ॥ दत्तं नो दानमत्युग्रं, न चित्ते स्मरणं तव । केवलं त्वयि सलमो, यथायोग्य निशामय ॥ ४४ ॥ नृदेहं दुर्लभं प्राप्य, तन्नाशश्च मया कृतः। यथैकाकी नरोऽरण्ये, रोरवीति मुधा तथा ॥ ४५ ॥ प्रत्यक्षफलदातृत्वाद्धम्म जैनं शुभं मतम् । तत्र जाता च नो प्रीतिर्मदीया दुःखनाशिनी ॥ ४६ ॥ महामौख्यं च मे पश्य, यतो जातं भयं मुहुः । कल्पवृक्षं तथा कामदुधा प्राप्य द्वयं मया ॥४७॥ सहसा दुःखसमूहं च, सहमानेन नाशितम् । दुर्लभं जन्म प्राप्याशु, न मया साधितं तपः ॥ ४८ ॥ रोगदुःखे निरुद्ध नो, दृष्टौ च सुखभोगको । इति मे पपराध च, क्षमख कृपया गुरो! ॥ ४९ ॥ अपमृत्युभयापत्तिनाशार्थं न कृतं क्वचित् । कान्ताजनसमासतो, धनादे. सङ्ग्रह. कृत. ॥ ५० ॥ कारागृहसमा नारी, नरकागारखलग्रहा । तत्रासक्तमनाश्चाहं, न जिनं ध्यातवान् पुनः ॥५१॥ नो साधितं च साधुत्वं, सद्वृत्तिों धृता मया। अतुला नार्जिता कीर्तिर्न परेषु दया कृता ॥ ५२ ॥ परदु ख प्रहाणेच्छा, तथा दीनजने दया। खप्नेऽपि नोपकारश्व, कृतं न गुरुसेवनम् ॥ ५३ ॥ रत्नकल्पं नृजन्मादिग्रामीणजनसेवया । मष्टं जातं मुघा विद्वन् ! तद्रक्षखाधुना गुरो! ॥ ५४ ॥ वैराग्ये च समायाते, शास्त्रज्ञानं न जायते । कोपाविष्टं दुर्जनस्य, वाक्यं मा सोढुमर्हसि ॥ ५५ ॥ आध्यात्मिकी च विद्या नो, नास्त्युत्तमकलाऽपि च । कथं भवाब्धे. पारं च, गमिष्यामि सुबोधय ॥५६॥ भवान्तरे चोत्तमं कर्म, न कृतं किञ्चिदुत्तमम् । जन्मान्तरे करिष्यामि, नास्त्याशा मे गुरो। किल ॥ ५५॥ जिनदेवेशं चाह,
वीर.२४