Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh
View full book text
________________
' ३७८ ' वीरस्तुतिः। '
[सिद्धपरमेष्ठी] ॐ सहचरसमीचीनचात्रियविचारगोचरोचितहिताहितप्रविभागस्य, अत एव परनिरपेक्षतया खयंभुवः सलिलान्मुताफलमिव उपलादिव च कीचनमदेवात्मनः कारणविशेषोपसर्पणवशादाविर्भूतमखिलबलविलयलब्धात्मखभावमसमसहायक्रममवधीरितान्यसंनिधिव्यवधानमनवधिमयनसाध्यमवसितातिशयसीमानमात्मस्वरूपैकनिबन्धनमन्तःप्रकाशमध्यासितवन्तमनन्तदर्शनवैशद्यविशेषसाक्षात्कृतसकलवस्तुसर्वखमनवसानसुखस्रोतसमर्पयन्तवीर्यमचाक्षुषसूक्ष्मावभासमसदृशाभिनिवेशावगाहमलघुव्यपदेशमपगतबाधापराकारसंक्रममतिविशुद्धखभावतया, निवृत्ताशेषशारीरद्वारतया च, मनाङ्मुक्तपूर्वावस्थान्तरमरूपरसगन्धशब्दस्पर्शमशेषमुवमाशिरःशेखरायमाणपदविश्वंभरमुप-7 शान्तसकलसंसारदोषप्रसरं, परमात्मानमुपेयुषो गुरुणापि प्रतिपन्नगुरुभावस्य रत्नत्रयपुरःसरस्य भगवतः सिद्धपरमेष्ठिनो भूयो भूयः स्मृति करोमीति खाहा, अपि च. . . प्रत्नकर्मविनिर्मुक्तानूनकर्मविवर्जितान् । . ' ___यत्नतः संस्तुवे सिद्धान् , रत्नत्रयमहीयसः ॥ २ ॥
[आचार्यपरमेष्ठी] ॐ पूज्यतमस्य उदिगेतोतदिकुलशीलगुरुपरम्परोपातसमस्तैतिहरहस्यसारस्य, अध्ययनाध्यायविनियोगविनयनियमोपनयनादिक्रियाकाण्डनिष्णातचित्तस्य चातुर्वर्ण्यसंघप्रवर्धनाधुरंधरस्य, द्विविधात्मधर्मावबोधनविधूतैहिकव्यपेक्षासम्बन्धस्य, सकलवर्णाश्रमसमयसमाचारविचारोचितवचनप्रपञ्चमरीचिविदलितनिखिलजनतारविन्दनीमिथ्यात्वमोहान्धकारपटलस्य ज्ञानतपःप्रभावप्रकाशितजिनशासनस्य शिष्यसम्पदाशेषमिव भुवनमुद्धर्तुमुद्यतस्य भगवंतो। रलत्रयस्य पुरःसरस्थाचार्यपरमेष्ठिनो भूयो भूयः स्मृतिं करोमीति स्वाहा । अपि च

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445