Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh

View full book text
Previous | Next

Page 395
________________ संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ३६९ श्रुत्वापि नो भयम् । संसारतारकं श्रुत्वा, ज्ञातं नो कारणं मया ॥ ३५ ॥ खानस्य मयि नो भासो, जातेश्च सुमनोरमः । गुणौघश्च मयि स्वामिन् ! विमला नो रतेः कला ॥ ३६ ॥ प्रभुत्वं न च मे जातं, खप्नेऽपि दृश्यतां प्रभो ! तथापि गर्वसंवेशात्करिष्येऽहं कथं हितम् ॥ ३७॥ प्रतिक्षणमायुहसते, मनस्तापो न यात्यसौ। दुःखदा च जराऽवस्था, सम्पना विषयादरात् ॥ ३८ ॥ निवर्तते न चाद्यापि, तस्मात्त्वच्छेरणागत । मेषजेच्छा मदीयाऽस्ति, धर्मवृत्तौ न मे मतिः ॥ ३९ ॥ मोहरूपग्रहाविष्टो, न शिष्ट. कोऽपि चाधुना । चैतन्येन समाविष्टो, लभते पद. मव्ययम् ॥ ४० ॥ इत्याद्यमन्यमानोऽहं, गुरो। रक्षां मयि कुरु । सन्मुखे त्वं मदीये हि, स्थितो दैन्यविमोचकः ॥ ४१ ॥ तथापि दीनवाक्यानि, शृणोमि तव सन्निधौ । धिक्कारं मे दयागार ! मुधा मे जननं भवे ॥ ४२ ॥ जिनसेवा कृता नैव, सविधिगृहसेवनम् । तथा कर्म कृतं धर्मपालनं न कचित्कृतम् ॥ ४३ ॥ दत्तं नो दानमत्युग्रं, न चित्ते स्मरणं तव । केवलं त्वयि सलमो, यथायोग्य निशामय ॥ ४४ ॥ नृदेहं दुर्लभं प्राप्य, तन्नाशश्च मया कृतः। यथैकाकी नरोऽरण्ये, रोरवीति मुधा तथा ॥ ४५ ॥ प्रत्यक्षफलदातृत्वाद्धम्म जैनं शुभं मतम् । तत्र जाता च नो प्रीतिर्मदीया दुःखनाशिनी ॥ ४६ ॥ महामौख्यं च मे पश्य, यतो जातं भयं मुहुः । कल्पवृक्षं तथा कामदुधा प्राप्य द्वयं मया ॥४७॥ सहसा दुःखसमूहं च, सहमानेन नाशितम् । दुर्लभं जन्म प्राप्याशु, न मया साधितं तपः ॥ ४८ ॥ रोगदुःखे निरुद्ध नो, दृष्टौ च सुखभोगको । इति मे पपराध च, क्षमख कृपया गुरो! ॥ ४९ ॥ अपमृत्युभयापत्तिनाशार्थं न कृतं क्वचित् । कान्ताजनसमासतो, धनादे. सङ्ग्रह. कृत. ॥ ५० ॥ कारागृहसमा नारी, नरकागारखलग्रहा । तत्रासक्तमनाश्चाहं, न जिनं ध्यातवान् पुनः ॥५१॥ नो साधितं च साधुत्वं, सद्वृत्तिों धृता मया। अतुला नार्जिता कीर्तिर्न परेषु दया कृता ॥ ५२ ॥ परदु ख प्रहाणेच्छा, तथा दीनजने दया। खप्नेऽपि नोपकारश्व, कृतं न गुरुसेवनम् ॥ ५३ ॥ रत्नकल्पं नृजन्मादिग्रामीणजनसेवया । मष्टं जातं मुघा विद्वन् ! तद्रक्षखाधुना गुरो! ॥ ५४ ॥ वैराग्ये च समायाते, शास्त्रज्ञानं न जायते । कोपाविष्टं दुर्जनस्य, वाक्यं मा सोढुमर्हसि ॥ ५५ ॥ आध्यात्मिकी च विद्या नो, नास्त्युत्तमकलाऽपि च । कथं भवाब्धे. पारं च, गमिष्यामि सुबोधय ॥५६॥ भवान्तरे चोत्तमं कर्म, न कृतं किञ्चिदुत्तमम् । जन्मान्तरे करिष्यामि, नास्त्याशा मे गुरो। किल ॥ ५५॥ जिनदेवेशं चाह, वीर.२४

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445